Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 205
________________ - [९४] भाववत्तादृशपक्षात्मकदोषस्य पूर्वोक्तसम्बन्धेन वक्तृत्वात्मकहेतौ सत्त्वेन वक्तत्वस्य हेतोर्दुष्टतया तस्य न तादृशपक्षकसर्वज्ञभेदानुमापकत्वमिति न भवतां प्रतिज्ञातार्थसिद्धिरिति ॥ २८ ॥ - ननु सर्वज्ञात्मकपक्षे परप्रकल्पितस्य सर्वज्ञस्य व्यवच्छेदः साध्यते, एवञ्च न भवन्मतसिद्धः सर्वज्ञः सम्पद्यते इति पूर्वपक्षिणां युक्ति पूर्वपक्षोत्तरपक्षाभ्यां खण्डयति परप्रकल्पितस्यैव, व्यवच्छेदोऽथ साध्यते । तदयुक्तं यतः शब्दो, न ते भावं व्यपोहते ॥२९॥ (अन्वयः) अथ, परप्रकल्पितस्य, एव, व्यवच्छेदः, साध्यते, तत्, अयुक्तम् , यतः, शब्दः, ते, भावम् , न, व्यपोहते । वृत्तिः-अथ-यदि । अव्ययानामनेकार्थत्वात् । परप्रकल्पितस्य-परेण-अन्येन भवताऽऽर्हतेनेति यावत्, प्रकल्पितः साधितः परप्रकल्पितस्तस्य तथा भवन्मतसिद्धसर्वज्ञस्येति यावत् । एवखलु। व्यवच्छेदो-भेदः । साध्यते-सिद्धीक्रियते; साधनानुकूलकृतिविषयी क्रियते इति यावत् । तत्-बुद्धिविषयीभूतपरप्रकल्पितभेदसाधनम् । भवतामिति शेषः । अयुक्तम्-अनुचितम् , युक्तिविरहित. मितियावत् । अयुक्ततामेव प्रदर्शयति-यत इत्यादिना। यत:-यस्मात् कारणात् । शब्द:-" असौ न सर्वज्ञो वक्तृत्वाद्देवदत्तवत्" १. स्वं वक्तृत्वाभाववत्तादृशपक्षात्मकदोषस्तज्ज्ञानं वक्तृत्वाभावानकिञ्चिज्ज्ञो वक्तृत्वश्चेतिसमूहालम्बनात्मकम् , तद्विषयः प्रकृतो हेतुर्वक्तृत्वम् हेतुतावच्छेदकं वक्तृत्वत्वम् तद्वत्त्वस्यवक्तृत्वे हेतो सत्त्वेन तस्य हेतोर्दुष्टत्वमवसे यम् ।

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244