Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[१२८]
सर्वज्ञरत्नगतमोहः तस्य विनाशे विध्वंसने हेतवः कारणानि सर्वज्ञसाधकयुक्तिकदम्बकरूपाणि यत्र तत्तथा । अदः एतत् । प्रकरणम् - प्रबन्धविशेषम् । कृत्वा - विरचय्य । यत् यादृशम्, यावदित्यर्थः । पुण्यम्-सुकृतम् । अर्जितम् - समासादितम् । सर्वज्ञरत्नगत मोह विनाशहेतुः " इति पाठे सर्वज्ञरत्नगतमोहविनाशहेतुत्वमिति पुण्यविशेषणतयाऽवसेयम् । तदा - सर्वज्ञरत्नमिवेति सर्वज्ञरत्नम्, तद्गतो मोहोऽज्ञानं सर्वज्ञरत्नगत मोहस्तस्य विनाशे विध्वंसने हेतुः कारणरूपन्तथा । इत्येवं व्याख्येयम् । मात्सर्यदुःखविरहेण - मात्सर्य्यजनितं दुःखं मात्सय्यदु खन्तेन विरहो वियोगो यस्मात्तेन तथा मात्सर्य्यजनितदुःखविध्वंस के नेत्यर्थः । अनेन - बुद्धिविषयीभूतेन तेन पुण्येन । समस्तपुंसाम् समस्ता निखिलाच ते पुमांसः पुरुषा मनुष्या इति यावत् समस्तपुंस स्तेषान्तथा, सर्वभव्यात्मनामिति यावात् । गुणानुरागः - गुणेषु - समस्तशास्त्रकदम्बकावगाहनजनितविचित्रवैदुष्यादिषु अनुरागः प्रेम स्नेहो वा गुणानुरागः । जायतामितिशेषः । न तु कदाचिदपि दोषे दृष्टिपातोऽपीति भावः ॥
66
००००
इति सुविहिताप्रणी - सुगृहीतनामधेय परमदार्शनिक ISSचार्य पुरन्दर श्रीहरिभद्रसूरीश्वरविरचितायां “ सर्वज्ञसिद्धौ " शास्त्रविशारद कविरत्न पीयूषपाणि पूज्यपादाचार्यमहाराज श्रीविजयामृतसूरीश्वरकृता ' सर्वहिताऽऽख्या' व्याख्या समाप्ता ॥ संपूर्णश्चायं ग्रन्थः ।

Page Navigation
1 ... 237 238 239 240 241 242 243 244