Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 235
________________ [१२४] युगपत्-एककालावच्छेदेन । ननु-निश्चयेन । किम्-कथम् । ननहि । जायते-भवति । च-पुनः । कस्यचित्-विरलस्य जनस्य । कदाचित्-जातुचित्, किम्-कथम् । जायते इति शेष ॥ ६१ ।। अनादिभव्यभावस्य, तथाभावत्वतस्तथा । कर्म योगाच्च निर्वेदा, स ताक् न सदैव हि ॥ ६२ ॥ __ (अन्वयः ) अनादिभव्यभावत्य, तथा, तथाभावत्वतः, च, कर्मयोगात्, निर्वेदः, सः, तादृक्, सदैव, न, • वृत्तिः-अनादिभव्यभावस्य-अनादिकालिकभव्यभावनावतः । तथा समुच्चये । तथाभावत्वतः-अनादिकालिकभव्यत्वतः । चपुनः । कर्मयोगात्-सुकर्मसम्बन्धात् । निर्वेदः-वैराग्यम् । जायते इति शेषः । तादृक्-तादृशः । सः-निर्वेदः । हि-निश्चयेन । सदैव-सर्वदैव । न-नहि ॥ ६२ ।। स्यादनेकान्तवादेऽपि, स स्यात् सर्वज्ञ इत्यापि । न्याय्यमापद्यते तेन, सोऽपि नैकान्तमुन्दरः ॥ ६३ ॥ ( अन्वयः ) स्यादनेकान्तवादे, अपि, सः, सर्वज्ञः स्यात् इत्यपि, न्याय्यम् , आपद्यते, तेन, सः, अपि, एकान्तसुन्दरः, न ॥ वत्तिः-स्यादनेकान्तवादे-स्यात्पदलान्छितानेकान्तसिद्धान्ते । अपि-खलु । स:-बुद्धिविषयीभूतः । सर्वज्ञः-सर्वज्ञपदवाच्यः । स्यात्-भवेत् । इत्यपि-इतीदमपि । न्याय्यम्-न्यायानपेतं यथा स्यात्तथा । आपद्यते-आपत्ति भजते । तेन-हेतुना । सः-बुद्धिविषयीभूतः सर्वज्ञः । अपि-खलु । एकान्तसुन्दरः- अत्यन्तसमीचीनः । न-नहि ॥ ६३ ॥

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244