Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 202
________________ [९१] अयं भावः अदःपदार्थतया विवक्षिते पक्षे सर्वज्ञविरुद्धत्वं सर्वज्ञभिन्नत्वं वा भवता साध्यते तदुभयसिद्धिः प्रतियोगिभूसर्वज्ञात्मकपदार्थसिद्धिसापेक्षैव, नहि केनचित् कुत्रापि गगनकुसुमकूर्मक्षीरादिविरुद्धत्वं तदन्यत्वं वा साधयितुं शक्यते प्रतियोगिनोऽप्रसिद्धत्वात् , एवश्च नहि तादृशेनानुमानेन भवतामभिलषितंफलतीति ॥ २५ ॥ ___ नम्वदःपदार्थतयाऽभिमते विपरीतज्ञे अविपरीतज्ञभेदो विरोधो वा साध्यते एवञ्चाविपरीतज्ञमपेक्ष्य भेदस्य विरोधस्य सिद्धावपि न सर्वज्ञः सिद्धयति, तस्य विपरीताविपरीतोभयज्ञत्वादित्याशङ्कय समाधत्ते-बिपरीतज्ञ इत्यादिना विपरीतज्ञ इष्टश्चे-नन्वनेकान्तदर्शनम् । प्रमाणसङ्गतं तेन, नैतदप्युपपद्यते ॥ २६ ॥ ( अन्वयः ) चेत्, विपरीतज्ञः, इष्टः, ननु, अनेकान्तदर्शनम् , प्रमाणसङ्गतम् , तेन, एतदपि, न, उपपद्यते । वृत्तिः-चेत्-यदि । विपरीतज्ञः-विपरीतं जानातीति तथा, अदःपदार्थतया पक्षत्वेन, इष्ट:-अभिमतः । भवतामितिशेषः । ननु-निश्चयेन । अनेकान्तदर्शनम्-स्याद्वाददर्शनम् । प्रमाणसङ्गतम्प्रामाणिकम् । भवेदिति शेषः । भवतामप्येकस्मिन् घटादौ विपरीताविपरीतत्वोभयाभ्युपगमात् एकस्मिन्ननेकधर्मसमावेशनात्मकमनेकान्तदर्शनमभ्युपेयमित्यनेकान्तदर्शनं भवतामनिष्टमपि सम्पन्नं भवेत्, एवञ्चास्माकीनः पक्षः सिद्धयतीति भावः । तेन-हेतुना । एतदपि-इदमप्यनुमानम् । न-नहि । उपपद्यते

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244