Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[११९] ( अन्वयः ) यत्, नित्यैकान्तवादे, बन्धमोक्षादि, न, युज्यते, अनित्यैकान्तवादे, अपि, बन्धमोक्षादि, (न) युज्यते ।
वृत्तिः-यत्-यस्माद्धेतोः । नित्यैकान्तवादे-नित्यश्चासावेकान्तवाद:-एकवस्त्वधिकरणकनित्यानित्यत्वाद्येकमात्रधर्मप्रकाशकदर्शनम् नित्यैकान्तवादस्तस्मिंस्तथा । बन्धमोक्षादि-संसारापवर्गादि । न-नहि। युज्यते-उपपद्यते । अनित्यैकान्तवादे-अनित्यः सर्वथाऽ. स्थायी चासावेकान्तवादोऽनित्यैकान्तवादस्तस्मिंस्तथा । अपि-खलु । बन्धमोक्षादि-संसारापवर्गादि । (न) युज्यते-उपपद्यते ॥ ५१ ।।
नित्यैकान्तवादे बन्धमोक्षानुपपत्ति दर्शयति श्लोकत्रितयेनजीवः स्वभावभेदेन, बध्यते मुच्यते च सः । ऐक्यापत्तेस्तयोनित्य, तथावन्धादिभावतः ॥५२॥
( अन्वयः) जीवः, स्वभावभेदेन, बध्यते, च, नित्यम् , सः, (स्वभावभेदेन ) मुच्यते, तयोः, तथाबन्धादिभावतः, ऐक्यापत्तेः ।
वृत्तिः-जीवः-जीवात्मा । स्वभावभेदेन-भिन्नेन स्वभावेन । बध्यते-संस्रियते, बन्धं नीयते इति यावत् । च-पुनः । स:जीवः । (स्वभावभेदेन-भिन्नेन स्वभावेन) मुच्यते-मुक्ति नीयते । तयो:-बद्धमुक्तयोः । नित्यम्-सर्वदा । तथाबन्धादिभावतः-समानबन्धमोक्षादिभावतः । ऐक्यापत्तेः-एकत्वापत्तितः । ऐक्यमापनयोस्तयोर्बन्धमोक्षादि न युज्यते इति भावः ॥५२॥ तयोरत्यन्नभेदेऽपि, न बद्धो मुच्यते कचित् । एवं च सर्वशास्त्रोक्तं, भावनादि निरर्थकम् ॥ ५३ ।।

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244