Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 233
________________ [१२२] वृत्तिः - अत: - यस्मादेकान्तेन बन्धमोक्षव्यवस्था नोपपद्यते तस्मादित्यर्थः । स्याद्वादनीत्या - अनेकान्तवादानुसारेण । एवखलु । परिणामिनि - परिणामवति जीवे । तथा - समुच्चये । बोद्धरि-ज्ञानवति चेतने । चं - पुनः । चित्रस्वभावे - भिन्नभिन्नस्वभाववति । सर्वम् - निखिलम् । बन्धादि - बन्धमोक्षव्यवस्थानम् । युज्यते - उपपद्यते ॥ ५७ ॥ य एव बध्यते जीवो, मिथ्यात्वादिसमान्वितः कर्मणा मुच्यते सम्यक्त्वादियुक्तः स एव हि ।। ५८ ।। ( अन्वयः ) यः, एव, जीवः, मिथ्यात्वादिसमान्वित:, (सन् ) बध्यते हि सः, एव, सम्यक्त्वादियुक्तः, कर्मणा, मुच्यते ॥ 9 वृत्तिः - बुद्धिविषयीभूतः । एव - खलु । जीव:- आत्मा | मिथ्यात्वादिसमन्वितः - मिथ्याज्ञानसंवलितः (सन् ) बध्यतेबन्धं नीयते । सः - मिथ्याज्ञानप्रयोज्य बन्धनवान् । एव अध्यर्थकः । हि निश्चयेन | सम्यक्त्वादियुक्तः - भिन्नस्वभावतया सम्यग्ज्ञानादिमान् । जीव इति शेषः । कर्मणा - बन्धप्रयोजकज्ञानावरणीयादिकर्मणा । मुच्यते - मुक्तो भवति ।। ५९ ।। बुद्धोऽहमिति निर्वेदात् प्रवृत्तिरपि युज्यते । परिणामित्वतस्तस्य, तत्क्षयाय कदाचन ॥ ५९ ॥ ( अन्वयः ) तस्य - चेतनस्य । " अहं बद्ध" इति निर्वेदात्, परिणामित्वतः, तत्क्षयाय, कदाचन, प्रवृत्तिः, अपि, युज्यते ॥ - वृत्तिः — तस्य - चेतनस्य । " अहं बद्धः " - संसरणात्मकबन्धनवानहमस्मि इति - अस्माद्धेतोः । निर्वेदात्-वैराग्यात् । परिणा 1 1

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244