Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
_[११८] इदानीं जिनमेव सर्वज्ञं निगमयति-एवम्भूतमित्यादिएवम्भूतं तु यद्वाक्यं, जैनमेव ततः स वै । सर्वज्ञो नान्य एतच्च, स्याद्वादोक्त्यैव गम्यते ॥५०॥
( अन्वयः) तु, यद्, एवम्भूतत्, जैनम, एव, वाक्यम् , ततः, वै, सः, सर्वज्ञः, अन्यः, न, एतत्, च, स्याद्वादोक्त्या, एव, गम्यते ॥ ५० ॥
वृत्तिः-तु-पुन: । यत्-यस्माद्धेतोः । एवम्भूतम्-दृष्टशास्त्राविरुद्धार्थादि पूर्वनिगदितस्वरूपम् । जैनम्-जयति रागादीनिति जिनस्तीर्थकृत् , तस्य इदम् तथा, जिनदेवप्रतिपादितमित्यर्थः । एव-खलु । वाक्यम्-वचनम् । ततः-तस्माद्धेतोः । वै-निश्चयेन । स:-जिनः । सर्वज्ञः-इष्टानिष्टाखिलपदार्थनिचय विज्ञाता । मन्तव्य इति शेषः । अन्य:-जिनेतरः । न-नहि । सर्वज्ञः स्वीकरणीय इति शेषः । कुत एतदवगम्यते इत्यत आह-एतच्चेति-एतत्-जिनस्य सर्वज्ञत्वम् च-पुनः । स्याद्वादोक्त्या-अनेकान्तवादव्यवस्थानेन । एव-खलु । गम्यते-अवबुध्यते । अनेकान्तवाद एव मुक्त्यादिव्यवस्था समुपपद्यते, सचानेकान्तवादो जिनदेवस्थापित एवेति स एवानेकान्तवादज्ञाता अत एव सर्वज्ञ इति भावः ॥ ५० ॥
ननु स्याद्वाद एव न स्वीक्रियतां तथा च कथं सर्वज्ञसिद्धिरित्याशङ्कय श्लोककदम्बकेनैकान्तवादं दूषयति " न नित्यैकान्तवादेयदित्यादि "
न नित्यैकान्तवादे यद्, बन्धमोक्षादि युज्यते । अनित्यैकान्तवादेपि, बन्धमोक्षादि युज्यते ॥५१॥

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244