Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 240
________________ Powececom800000000MMOTI ॐ हीं अई नमः ।। १। अथ प्रशस्तिः । (१) आद्यस्तीर्थपतिवृषाविततनुर्देवाधिदेवोऽभवः, शान्तिः शान्तिनिशान्तशान्तवृजिनो विश्वकविश्वेश्वरः नेमिब्रह्मबलोऽबलात्मशमदः पार्श्वः सपार्श्वः प्रभुवीरोऽन्येऽपि जिनाधिपाः सुकृतिनां कुर्वन्तु सत्कामितम् ।। (२) - यल्लोकोत्तरशासनं भवजले, पोतायमानं नृणां, यज्ज्ञानं भुवनावभासनसहं, मोहान्धकारापहम् । यत्पादार्चनतो जगन्ति परमां संप्राप्नुवन्ति श्रियं, . स स्वामी विशलात्मनो विजयतां श्री वर्धमानो जिनः ।। तत्पश्टोदयभास्करः समभवत्स्वामी सुधर्मा गणी, जग्रन्थे स जगत्त्रयोपकरणी श्रीद्वादशाङ्गी वराम् । तत्पट्टेऽजनि चारुचित्रचरितो ब्रह्मैकनिष्ठो गुरुर्जम्बूस्वामिमुनीश्वरोऽमितमति: पूज्योऽन्तिमः केवली ।। स्वामीश्रीप्रभवः प्रभूतमहिमस्तपट्टभृद् विद्वरः, स्याद्वादाम्बुजबोधनेऽहिमकरो जातः सतामपणीः । श्रीशय्यंभवसूरिराट् समभवद् विस्फारकीर्तिस्ततः, सूनोः श्रीमनकस्य शंनिधिषशाद्वैकालिकं विस्तृतम् ।। १ तस्मादित्यर्थः।

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244