Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 218
________________ [१०७] वक्तृत्वस्य रागादिनिबन्धनत्वमपि साक्षादेव दोषावहं भवति, रागादीनां पारम्पर्येण वक्तत्वकारणत्वे दोषाभावात् महता प्रयासेन भवद्भिरवधारितं वक्तत्वस्य रागादिनिबन्धनत्वमपि सर्वज्ञसिद्धावबाधकमेव, वक्तत्वे रागादिनिबन्धनत्वं प्रसाध्यैव तादृशेन वक्तृत्वेन सर्वज्ञत्वाभावसाधनं विधीयते, रागादीनां तन्निबन्धनत्वं साक्षाद् भवताऽपि न साधयितुं शक्यते परम्परया तन्निबन्धनत्वं तु न सर्वज्ञत्वाभावसाधकमिति न वक्तृत्वहेतुकेनानुमानेन भवतां मनोरथसिद्धिः । ननु पारम्पर्येणापि रागनिबन्धनं वक्तृत्वं स्वीक्रियते चेद् वीतरागत्वव्याघातः सर्वज्ञवीतरागयोर्भवद्भिरनर्थान्तरत्वस्वीकारात् इति शङ्कां मनसि निधायाह-इध्यन्त एवेति ६७ (मूलम् )-इष्यन्त एव हि भगरतोऽतीता रागादयः, भगवतः सर्वज्ञस्याप्यतीतारागादयो निश्चयेनेष्यन्त एवेति न वीतरागत्वव्याघातः, अतीतरागादिस्वीकारपक्ष एव वीतरागपदस्याभिघेयार्थ उपपद्यतेऽपि तन्नाशस्य तत्पूर्वकत्वदर्शनात् “अत्र गृहे घटो नष्टः” इति व्यवहारस्यापि गृहे घटसत्तास्वीकार एवोपपत्तेश्च, प्रत्युतातीतरागादेरस्वीकारे वीतरागपदे मुख्यार्थानुपपत्त्या लक्षणा. भ्युपगमापत्तेश्च । ननु देहकारणानानां रागादीनां विनाशे तत्कालावच्छेदेनैव रागादिकार्य्यस्य देहस्यापि विनाश आपद्यतेत्याशङ्कते नचेतिसमाधत्ते-तेषामित्यादिना ६८ ( मूलम् )-न च तनिवृत्तौ तत्कार्यत्वेन तदैव देहनिवृत्तिप्रसङ्गा, तेषां तनिमित्तकारणत्वात् तदभावेऽपि

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244