Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[१२१]
( अन्वयः ) सन्तत्यपेक्षया, अपि, निरन्वयविनाशिषु तथाभेदात्, तदभावात्, एकान्तेन ( बन्धमोक्षादि ) न, युज्यते ।
वृत्तिः - सन्तत्यपेक्षया - सन्तानमपेक्ष्य । अपि - खलु । निरवयविनाशिषु निरन्वयविनाशवत्सु पदार्थेषु । तथा तेन प्रकारेण | भेदात्-वैधर्म्यात् । तदभावात् - एकत्वनित्यत्वाद्यभावात् । एकान्तेनएकान्तपक्षस्वीकारेण । न - नहि । युज्यते - उपपद्यते ।। ५५ ।।
प्रबन्धेनोदित
यतः ।
एतच्च सर्वमन्यत्र, ततः प्रतन्यते नेह लेशतस्तूक्तमेव हि ।। ५६ ॥
"
( अन्वयः ) च, एतत् सर्वम्, यतः, अन्यत्र, प्रबन्धेन, उदितम्, ततः, इह, न, प्रतन्यते, हि, लेशतः, पुनः उक्तम्, एव ।। ५६ ।।
1
1
वृत्तिः - च- पुनः । एतत् - प्रत्यक्षभावेदितम् । सर्वम् - निखिलम् । यतः - यस्माद्धेतोः । अन्यत्र - प्रन्थान्तरे । प्रबन्धेन-प्रकरणेनातिदीर्घेण । उदितम् - निरूपितम् । ततः तस्माद्धेतोः । इह-अस्मिन् सर्वज्ञप्रकरणे । न-नहि । प्रतन्यते-विस्तार्य्यते । हि-निश्चयेन । लेशतः - स्वल्पत्वेन । पुन:- तु । उक्तम् - निरूपितम् । एव खलु । अथवा एवशब्दोऽप्यर्थे पुनर्निरूपितमपि न दोषत्वेनावगन्तव्यमिति भावः ॥ ५६ ॥
अतः स्याद्वादनीत्यैव, परिणामिनि बोद्धरि । तथा चित्रस्वभावे च सर्व बन्धादि युज्यते ॥ ५७ ॥
9
( अन्वयः ) अतः, स्याद्वादनीत्या, एव, परिणामिनि, तथा, बोद्धरि, च, चित्रस्वमावे, सर्वम्, बन्धादि, युज्यते ॥

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244