SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ( ८ ) साधयत्येव सकलदोषरहितत्वादिति, ते न समञ्जसवाचः । तनुभुवनादयो बुद्धिमन्निमित्तका इति पक्षस्य व्यापकानुपलब्ध्या बाधितत्वात्कार्यत्वहेतोः कालात्ययापदिष्टत्वाच्च । तथाहि, तनुभ्रुवनादयो न बुद्धिमन्निमित्तकास्तदन्वयव्यतिरेकानुपलम्भात् । यत्र यदन्वयव्यतिरेकानुपलम्भस्तत्र न तनिमित्तकत्वं दृष्टं यथा घटघटीशरावोदञ्चनादिषु कुविन्दाद्यन्वयव्यतिरेकाननुविधायिषु कुविन्दाद्यनिमित्तकत्वम् | बुद्धिमदन्वयव्यतिरेकानुपलम्भश्च तनुभुवनादिषु, तस्मान्न तनुभुवनादेर्बुद्धिमन्निमित्तकत्वमिति व्यापकानुपलम्भः, तत्कारणत्वस्य तदन्वयव्यतिरेकोपलम्भेन व्याप्तत्वात् । भवति च व्यापक निवृत्तौ व्याप्यनिवृत्तिः । न च तत्कारणत्वस्य तदन्वयव्यतिरेकोपलम्भव्याप्तत्वमसिद्धं, कुलालकारणकस्य घटादेः कुलालान्वयव्यतिरेकोपलम्भप्रसिद्धेः सर्वत्र बाधकप्रमाणाभावेन तस्य तद्व्याप्तत्वव्यवस्थापनात्, न चायं व्यापकानुपलम्भो व्यतिरेकानुपलम्भस्वरूपोऽसिद्धः तन्वादीनामीश्वरव्यतिरे कोपलम्भस्य कालकृतस्य देशकृतस्य वा महेशस्य नित्यविभुत्वेनासम्भवात् तेषां तद्व्यतिरेकानुपलम्भस्य प्रमाणसिद्धत्वात् । न चेश्वरेच्छानिमित्तत्वात्तन्वादिकार्यस्यायमदोष इति वाच्यं तस्या अपि विकल्पाक्षमत्वात् । विकल्पाक्षमत्वं च यथा तस्या नित्यत्वे व्यतिरेकाभावात न कारणत्वम् । कारणत्वे सर्वदा सद्भावात्सर्वदा कार्योत्पत्तिप्रसङ्गात् । न च तदिच्छाया नित्यत्वेऽपि सर्वगतत्वाभावान्न व्यतिरेका सिद्धिरिति वाच्यम्, तद्देशे व्य " 9
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy