SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir रितः। प्रभुरपि दशनमालामयूखवारिणा क्षालितयेव विमलयैकयाऽप्यनेकजनसन्देहहारिण्या सुरनरतिर्यगजनसाधारणया वारिवाहगर्जारवगभीरया संसारदुःखसंतप्तसत्चसन्तापहारिण्या योजनमात्रप्रतिफलनक्षमया मधुरया वाचा धर्मकथयितुंप्रारभत । इतो द्वारपालनिवेदितोवनपालकासमागत्यबद्धाञ्जलिरास्थानस्थितं चन्द्रराजमहीपतिव्यजिज्ञपत् । कुसुमाकरउद्याने, स्वामिन् ? भवरोगहारकः । मुनिसुव्रतस्वाम्यद्य, शान्तमूर्तिः समागतः ॥१॥ निशम्य तत्सुधासावं, वचनं स नरेश्वरः । धनरत्नप्रदानेन, वनपालमतोषयत् ॥ २।। ततश्चतुर्विधां सेना, सज्जयित्वाऽतिहर्षितः। प्रभुं नन्तुं जगामाशु, परिवारसमन्वितः ॥३॥ देवैर्विरचितं प्रौढं, वप्रत्रयविराजितम् । दृष्ट्वा समवसरणं, नृपतिर्मुदितोऽभवत् ॥ ४॥ गत्वाऽन्तिके बाहनानि, विहाय क्रमतश्चरन् । लक्ष्यीकृत्य जगामैत-त्पश्चाभिगमपूर्वकम् ॥ ५॥ अथदरतःसहजवैरिणोऽपिप्राणिनोमिथःशान्तस्वभावान्भगवतः पर्षदि मैत्रीभावेन संस्थितान्विलोक्य चेतसिचमत्कृतिदधानश्चन्द्रराजः स्वप्रियांप्रतिप्राह, कमलाक्षि ? इतो विलोकय, भगवतःपर्षदि नानाविधावस्कन्दसंग्रामैनिहतग्रामनगरनिवासा नरेन्द्राः सुहृद्भाबंदधानाःस्थिताः, प्रिये ? जगद्भर्तुः पर्षदि समागतोऽयं द्विरदोगण्डस्थलस्थली निजकरण केसरिकरमाकृष्य मुहुःकण्डूयते, इतश्च महिषोऽयंमुहुर्मुहुः स्नेहतोरसनया हेषमाणमिमंहयवरं महिषमिवप्रमार्टि, इतोऽयंमृगो लीलालोलितलाङ्गुल ऊर्ध्वको नमितवदनो घ्राणेन सिंहाननं जिघ्रति, प्रिये ? पश्य, पार्श्वयोरग्रतःपश्चाच ललन्तमूषकं निजशिशुवदयंतरुणमार्जारः समालिङ्गति, निर्भयोऽयंसरीसृपोनिजाभोगकुण्डलीकृत्य महानकुलस्य सन्निधौ वयस्यभावमापन्नोनिषएणोऽस्ति, हे प्रिये ? ये केचिदन्येऽपि जीवाशाश्वतवैरिणस्तेत्र निर्वैराः स्थिताः सन्ति, प्रभोरेवायमसमप्रभावः, इति जगत्प्रभोर्मुनिसुव्रतस्वामिनोमहिमानस्तुवन्भूपतिः For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy