________________
[ ८२ ]
शङ्कय समाधत्ते तदतत्स्वभावत्वे इत्यादि अयं भावः कस्यचित् पद्मरागादे कदाचित् विशुद्धर्भवति न तु सर्वदेति वस्तुस्थितिः तदतत्स्वभावत्वस्वीकारे अमलस्वभावत्वात् सर्वस्य पद्मरागादेर्विशुद्धयापत्तिः स्यादिति भावः । तत्र हेतुमाह- अमलस्वभावत्वेऽपीति, अमलस्वभावत्वे स्वीकृतेऽपि मलस्वभावतापन्नवद् मलादेरनुपपत्तेरिति भावः । ननु दृष्टान्तदाष्टान्तिकयोर्महदन्तरम् पद्मरागादेर्मलस्य भिन्नस्तुत्वेन पद्मरागोपरञ्जकत्वात् सांसिद्धिकत्वं नास्ति रागादीनां पुनरात्मनः सांसिद्धिकत्वमेवेत्याशङ्कते न पद्मरागादेरिति ।
समाधत्ते - आत्मनोऽपीत्यादि
५९ - ( मूलम् ) आत्मनोऽपि रागादिषु तुल्यः परिहारः, तथाहि - रागादिवेदनीय कर्माणोऽप्यात्मनो भिन्नवस्तुतामनुभवन्तस्तदुपरञ्जका इति तत्रनीतिः, निसर्गशुद्धस्य कथ तदुपरञ्जकाः कथं वा न भूयोऽपवर्गावस्थायामिति चेत्, पद्मरागादिष्वपि समानमेतत्,
रागादीनामपि भिन्नवस्तुत्वेनात्मोपरञ्जकत्वात् सांसिद्धिकत्वस्यैव स्वीकरणीयत्वादिति भावः । सांसिद्धिकत्वमेवोपपादयति - तथाही - त्यादि - तत्त्वनी तिरित्यन्तेन ग्रन्थेन । ननु स्वभावशुद्धस्याऽऽत्मनस्ते रागादय उपरञ्जका न भवितुमर्हन्ति तेषामात्मोपरञ्जकत्वे चापवर्गावस्थायामप्युपरञ्जकत्वमापद्येतेत्याशङ्कते - निसर्गशुद्धस्येत्यादिसमाधत्ते - पद्मरागादिष्वपीत्यादि - निसर्गशुद्ध पद्मरागो परञ्जकत्वमपि मलस्य न स्यात् क्षारमृत्तिकापुटपाकादितो विशुद्धयवस्थायामप्युपरञ्जकत्वञ्च स्यान्न च तथा भवतीति निसर्गशुद्धस्याप्यात्मन उप
"
-