________________
[अप्रसिद्ध श्रुत इत्यस्या रचना त्रयोदशशताब्दीपूर्वार्धेऽनुमीयते । अंशोद्धाररूपेयं वृत्तिः 'वायना' (Vienna) इत्यत्र मुद्रिता श्रूयते न तु दृष्टा ।
अपवर्गनाममाला । जिनभद्रः पृ. ४५ जैनग्रन्थावल्यां, H. प्रतिप्रान्ते, ही. सूचिपत्रे चास्याः ‘पञ्चवर्गपरिहारनाममाला' इति नाम दृश्यते, दलालेनापि तथैव दर्शितमासीत्। तथाप्यस्याः प्रारम्भप्रान्ते विलोकितेऽपवर्गनाममालेत्येव नाम सम्यक् प्रतिभाति । कोशकारोऽयं जिनभद्रसूरिरात्मानं जिनवल्लभसूरि-जिनदत्तसूरिसेवकत्वेन न्यदर्शयत् , जिनप्रिय(वल्लभ)स्य विनेयत्वेन च स्वं पर्यचाययदतो द्वादशशताब्यामस्या रचनाऽनुमीयते । नामकोशः । सहजकीर्तिः
पू. ५८ षट्काण्डान्वितः सलिङ्गनिर्णयोऽयं कोशः सप्तदशशताब्द्याश्चतुर्थे चरणे रचितो विज्ञायते, यतः सं. १६८३ वर्षेऽनेन ग्रन्थका शतदलकमलालङ्कृता लोद्रपुरीयपार्श्वजिनस्तुतिः कृताऽत्र (परि० ६) दर्शिता । सं. १६८५ वर्षे चानेन सतीर्थ्यश्रीसारेण साकं स्वगुरुगुरुनाम्ना कल्पमञ्जरीसंज्ञिका कल्पसूत्रवृत्तिर्विनिर्ममे । सं. १६८६ वर्षे महावीरस्तुतिवृत्तिः, सं. १६८८ वर्षे प्रीतिषत्रिंशिका (गू.), अनेकशास्त्रसारसमुच्चयः, ऋजुप्राज्ञव्याकरणम् , एकादिशतपर्यन्तशब्दसाधनिका, सारस्वतवृत्तिः, सिद्ध(?)शब्दार्णव इत्यादिकाऽस्य कृतिरप्येतत्पाण्डित्यं परिचाययति । अयं ग्रन्थकारो खरतरगच्छीयवाचकरत्नसारस्य शिष्यः।
सं. १६८६ व्युत्पत्तिरत्नाकरः । देवसागरः पृ. ६१ [P. P. १।१३०]
अयं ग्रन्थः सुप्रसिद्धाया हैमीनाममालाया व्याख्यारूपः । ग्रन्थकारोऽयं विधिपक्षगच्छीयविनयचन्द्रवाचकस्य शिष्यः । सं. १६७६ वर्षे, सं. १६८३ वर्षे च शत्रुञ्जयगिरौ कल्याणसागरसूरिप्रतिष्ठितस्य श्रेयांस-चन्द्रप्रभजिनयोः प्रासादद्वयस्य प्रशस्तिरनेन विहिता (प्रा. जै. ले., एपिग्राफिआ इंडिका २१६४,६६,६८,७१) इत्यस्य विद्वत्ता सप्तदशशताब्द्युत्तरार्धे विद्यमानता च
स्फुटमवसीयते।
एकाक्षरनाममालिका । विश्वशम्भुः पृ. ५७ [ A. ८।१०१, P. P. ६।९४]
नाटके। चन्द्रलेखाविजयप्रकरणम् । देवचन्द्रः क्र. २४ पञ्चाङ्कमेतन्नाटकं कुमारपालनृपसत्तायां त्रयोदशशताब्दीप्रारम्भे विरचितं विज्ञायते, यत एतत्प्रारम्भे सूत्रधारमुखेन 'कुमारविहारे मूल नायकपार्श्वजिनवामपा वस्थित श्रीमदजितनाथदेवस्य वसन्तोत्सवे कुमारपालपरिषच्चेतःपरितोषायास्य प्रणयनम्' इति समसूचि । अर्णोराजमन्थनरूपा कुमारपालवीरत्वसूचिका स्तुतिश्चात्र दृश्यते । अयं च देवचन्द्रो मुनिः सुप्रसिद्धस्य हेमचन्द्राचार्यस्य शिष्यः, न स्वयं गुरुर्देवचन्द्रसूरिः । जैनग्रन्थावल्यादावस्य हेमचन्द्रगुरुत्वं दर्शितम्, तत्तु समाननामभ्रान्स्यैवेति व्यक्तं भवति प्रारम्भप्रान्तदर्शनात् । अस्य कवेः सान्निध्यकर्ता शेषभट्टारकः क इति न विज्ञायते ।
१ विद्याम्भोनिधिमन्थमन्दरगिरिः श्रीहेमचन्द्रो गुरुः __ सान्निध्यैकरतिर्विशेषविधये श्रीशेषभट्टारकः । यस्य स्तः कविपुङ्गवस्य जयिनः श्रीदेवचन्द्रस्य सा कीर्तिस्तस्य जगत्रये विजयतात् साद्व(?)ललीलायिते ॥~चन्द्रलेखाविजयप्रान्ते P.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org