________________
मानसोल्लासः।
[अध्यायः ३
अवग्रहे विताने च पश्चात्साधयितुं गजम् । अङ्कुशाग्रेण यो घातः सोऽवकर्ष इति स्मृतः ॥ ६०० ।। तिर्यग्विवर्तनाथ तु कर्णसन्धौ मृणेर्हतिः । निवर्तन इति ख्यातो गजारोहणकोविदः॥१॥ मुखोत्क्षेपाय यत्कुन्निदानेऽङ्कुशघातनम् । उत्कर्णक इति ख्यातः सृणिकर्मविचक्षणैः ॥ २ ॥ पादयोः प्रणिधौ सय कलापस्य निपीडनम् । बहिमुखे च कर्तव्ये यन्तुः पादतले दृढे ॥ ३ ॥ दृढं पूरयितुं गाढमङ्गुष्ठाभ्यां प्रपीडयेत् । आकर्षणाय पाणिभ्यां स्थित य(तम)वनिपीडनम् ॥ ४ ॥ वामतः प्रेरणे घातो दक्षिणेन पुनर्भवेत् । वामेनाङ्गुष्ठयोगेन दक्षिणेन निवर्तयेत् ॥ ५॥ अधोमुखं विधातुं तं कुञ्जरं यदि वाञ्छति । निम्नाङ्गुष्ठौ विधातव्यौ ताभ्यामेव प्रपीडनम् ॥ ६ ॥ ऊर्ध्वाननं गजं गर्तु यन्ता प्रेप्सुर्भवेद्यादि । उन्नताङ्गुष्ठयोगेन प्रोन्नयेद् द्विरदाननम् ॥ ७ ॥ अङ्कुशोत्क्षेपमात्रेण यो विद्यौदिङ्गितं गजः । अन्त्यवेदी स विज्ञेयः सङ्कीर्णोऽयं मतङ्गजः ॥ ८ ॥ अकशेन तु दण्डेन चमणि स्मृत (स्पृष्ट) एव यः। द्विरदो वेत्ति यः कृत्यं मृग उत्तानवेदितः ॥ ९॥ असक्स्रावे . हननं वेत्ति कृत्यं चिरेण यः । गम्भीरवेदी विज्ञेयो मन्दो नाम मतङ्गजः ॥ ६१० ॥ प्रहारस्यानुरूपेण यो जानाति वधावधम् । अन्वर्थवेदी विज्ञेयो भद्रजातिवंरो गजः ॥ ११ ॥
१D सन्ध । २ D इ । ३ DF विख्यातः । ४ A द्यः F न्छ । ५ A णंयप्रा। ६ DF स्थिय । DFध । ८ A णो। FA तः । १. D रो। ११ A योचे । १२ D शक्षे । १३ Dन्या । १४ A F तो। १५ A F अत्य । १६ A । १७ A F ता। १८ F A हनान्येति कृत्या।
Aho! Shrutgyanam