________________
२१२
मानसोल्लासः।
[ अध्यायः४
तेजीकुलजनीहारसारस्वततुरुष्ककाः । चतुर्दशैते वाहेषु मध्यमाः परिकीर्तिताः ॥ ७२ ॥ मेदका आर्जनेयाश्च त्रैगा गुजरास्तथा । राजसावन्त्यसौराष्ट्राः पारियात्राः सहारकाः ॥ ७३ ॥ दुग्धवार्टीः स्तब्धवाटाः कनिष्ठा द्वादश स्मृताः। तंत्राप्येकोऽतिकष्टः स्यात्स्तब्धवादी(ट)समुद्भवः॥ ७४ ॥ षविंशतिविभेदाः स्युः राज्ञा ने(ज्ञे)यास्तुरङ्गमाः। न जायन्ते कलौ यस्मात्तस्मान्न गणिता मया ।। ७५ ॥ जलावर्तवदावर्तो मुकुलो मुकुलाकृतिः । शुक्तिः शुक्तिसमाकारो गोलीहा(जिव्हे)वावला(ली)ढकः ॥ ७६ ॥ शतपद्यभिधा ज्ञेया शतपद्या समाकृतिः । पादुका पादुकाकारस्तदर्धस्त्वर्धपादुकाः(का) ॥ ७७॥ बहीवर्तसमायोगः सम्पातः परिकीर्तितः । अष्टौ भेदाः समाख्याता आवतानों मनीषिभिः ॥ ७८ ॥ द्वावुरस्यौ शिरस्यौ द्वौ द्वौ(द्वौ रन्ध्रोपरन्ध्रयोः । एको भाले प्रमाणेन(पाणे च)ध्रुवावर्ता दश स्मृताः ॥ ७९ ॥ स्यान्निगाले देवमणिस्तधो रोचमानकः । कण्ठीवर्तस्तयोर्मध्ये प्रशस्तस्तेि विशेषतः ॥ ६८० ॥ ललाटे मृकणोव्हिॉस्त्वचि केशान्तयोस्तथा । वक्षःस्थले कर्णमूले शुभावर्ताः प्रकीर्तिताः ॥ ८१ ॥ श्वेतः कृष्णोऽरुणः पीतः शुद्धाश्चत्वार एव हि । मिश्रास्त्वनेकधा वर्णास्तेषां भेदः प्रवक्ष्यते ।। ८२ ॥ केशा वालाश्च रोमाणि वर्म चैव खुरास्तथा ।
श्वेतैरतर्भवेदश्वः कैका(का)ह्वो विप्रजातिजः ॥ ८३ ॥ १ A साम्बती । २ D चतुष्कलाः ।३ FA गू। ४D म्बष्टका । ५ A आहराः १६ Aटा...F यस्तथवायः। ७ D adds this line | ८ D ट्त्रिं । ९ D लीहावाहावली । १० A परिकीर्तितः । ११ A वोहावत । १२ A सयातः । १३ A तमि । १४ D दा । १५ Aङ्ग । १६ D स्तश्च । १७ D णौ। १८ A बर्बाहो। १९ A त । २० D च । २१ A का। २२ D च । २३ D का।
Aho ! Shrutgyanam