Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
विंशतिः४]
मानसोल्लासः। ग्रासगृनुर्यदा श्येनस्तदा हस्तान्तरं नयेत् । दर्शनात्कलविङ्करस्य प्रलोभ्य च शनैः शनैः ॥ ५३ ॥ कुर्यात्स(त्सु)वर्तुलं श्लक्ष्णं दोरं हस्तप्रमाणकम् । एकतो मुद्रिकायुक्तमन्यतो वध्रसंयुतम् ॥ ५४ ॥ तन्मुद्रिकामध्यगतां रज्जु दीर्घा प्रकल्पयेत् । तदन्तं धारको धत्ते शिर्शकश्च तथा परम् ॥ ५५ ॥ एहीति ध्वनिमाहूय चटकं दर्शयेत्पुरः। आनयेत्स्वकराभ्याशमारा+रात्क्रमाक्रमात् ॥ ५६ ॥ आह्वाने(न) शिक्षिते श्येने दोरकं प्रतिमोचयेत् । विमुक्तदोरकं श्येनं समर्माह्वानसुशिक्षितम् ॥ ५७ ॥ चटकं प्रोतनयनमुत्क्षिप्तं गगनान्तरम् । निहन्तुं मोचयेच्छयेनं मुष्टिमध्ये व्यवस्थितम् ॥ ५८ ॥ मुष्टिनिर्गमसिद्धं तं स्थूलपैक्षिषु योजयेत् । बृहत्कायांस्तथा श्येनान्विना मुष्टय(ष्टया) तु शिक्षयेत् ॥ ५९ ॥ सेवा(श्चा)णं वेसरं चैव तथा रगणजातिकम् । शिक्षयेन्मुष्टियोगेन तदन्यान्मुष्टिना विना ॥ १३६० ॥ विनाविष्ट(यष्टिं) विना मुष्टया शिक्ष्या जलव(वल)कट्टिकाः । पाजी चैं गृध्रजाती च शैशकेषु नियोजयेत् ॥ ६१ ॥ जालिवं जावलं लग्नं शिक्षयेद्वचनक्रमात् । वायसं करसंलग्नं दर्शयित्वा समायेत् ॥ ६२ ॥ अम्बरौंदागते श्येने का यत्नेन वश्चयेत् । वञ्चिते वायसे श्येनः पुनर्गच्छति वेगवान् ॥ ६३ ॥ शिक्षयेच प्रदश्र्यैवमेहीति वचसाह्वयेत् । बहुशो वञ्चितं श्येनं वायसेनैव तर्पयेत् ॥ ६४॥
A क। २ A भ्यं । ३ D सवर्तुलां रज्जु A संव। ४ A समु । ५ Aङ्गं । ६ D क्षित । VA दू । ८ A न् । ९ A म । १. A यष्टिषु । ११ घ्यं । १२ D संवाणं वस । १३ Domits this line| १४ Dव । १५ A शशाणे । १६ A रादि । A १७ ने।
Aho ! Shrutgyanam

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378