________________
विंशतिः ।
मानसोल्लासः।
२७१
वेसरो रंगणान्हैन्ति सञ्चाणा मुष्टिशक्तितः । अम्बरस्थान् खगान् हन्तुं प्रभवन्ति स्ववेगतः ॥ ७६ ॥ कङ्कगदीनपि दूरस्थानपि दृष्टेरगोचरान् । स्वपक्षवलसामर्थ्यात् प्रहर्तु शालिवा(वः) क्षमः ॥ ७७ ॥ द्रुमचर्मपिनद्धांगाः स्वपक्षबलसामर्थ्यात् प्रहर्तु शालिवादनाः(वाः क्षमाः) । प्राजिकाश्च तथा गृध्राः स्थूलोन्नन्ति विहङ्गमान् ॥ ७८ ॥ अम्बरेणैव दूरस्थान्स्वपक्षबलमाश्रिताः । एवं श्येनविनोदोऽयं कथितः सोमभूभुजा ॥ ७९ ॥ उक्तः सकृ(त्कृतविश्वेन सोमेश्वरमहीभुजा । उदितः सोमभूपेन विनोदः श्येनसम्भवः ।। १३८० ॥
इति श्येनविनोदः ॥ १३ ॥ अग्रे मत्स्यविनोदोऽयं कीयते राजवल्लभैः । मत्स्याः स्युबहुजातीया गणनागोचरा न ते ॥ ८१ ॥ तथापि कियतो वक्ष्ये विनोदेखूपयोगिनः। ते च जात्या द्विधा ज्ञेयाश्चर्मोः शल्कजा इति ॥ ८२ ॥ प्रत्येकं ते द्विधा प्रोक्ताः स्थूलसूक्ष्मविभेदतः। द्रुमचर्मपिनद्धाङ्गाश्चर्मजाः शल्कँवनिताः ॥ ८३॥. शल्कशुक्तिपिनङ्गिाः शल्कजास्ते प्रकीर्तिताः। केचित्समुद्रसम्भूताः केचिनयुद्भवा अपि ॥ ८४ ॥ .. तेषां नामानि वक्ष्यामि सङ्केपेण निबोधत । . सोरश्च शृङ्गसौरश्च चविलोचो बैलस्तथा ॥ ८५ ॥ कण्टकारः सङ्कुचकैश्चर्मजोः सागरोद्भवाः । कोवासकः खिरीडश्च पोठीनः सिंहतुण्डकः ॥ ८६ ॥
A F वंश । २ A F ग । ३ A न । ४ D संवा । ५ A मिष्टि । ६ Dadds this line, GD पक्षिणोगाचरांस्तथा । ८ Dadds this line | ९ A only has this lins । १० D जि। ११D लान्ध । १२ A नैव । १३ A रोदितारातिपोष्टिता। १४ A gives these two lines | १५A भ। १8A जा! १७ A क। १८ A द्धाये। १९ । २. D च । २१ D बि । २२ A का। २३ A जी। २४ A रडश्चैव । २५ A पी। २६A सी।
Aho! Shrutgyanam