________________
२७५
اینه که یه نیومة
وه به ميه من
विंशतिः ४]
मानसोल्लासः। स्थूलमूलं च सूक्ष्मानं कण्टकेन समन्वितम् । रज्जुबन्धनदेशस्तु वृत्तो वो फलकाकृतिः ॥ २२ ॥ निम्नमध्यस्तु कर्तव्यो बडिशस्य (शःस) तु धीमता । स्थूल रज्जु स्थूल यष्टौ न बनीयात्तनुं तनौ ॥ २३ ॥ नीरमीनप्रमाणेन स्थौल्यं दैर्घ्यं च कल्पयेत् । रज्जुप्रमाण(णं)वडिशं रज्जोरग्रे निबन्धयेत् ॥ २४ ॥ मयूरपिच्छकाण्डं तु रज्जुमध्ये निवेशयेत् । यष्टिमूले तथा चान्यां रज्जु दीर्घा च योजयेत् ॥ २५ ॥ पुच्छवत्कल्पयेत्तत्र्यष्टि(ज्ज्ञो यष्टिं)मोहनहेतवे । यस्य यद्रोचते पक्षे पिष्टमामिषमेव वा ॥ २६ ॥ बडिशाग्रे तदासज चारस्थाने विनिक्षिपेत् । विक्षेप(वीक्षेत)पिच्छकाण्डं तदेकाग्रमनसा नृपः ॥ २७ ॥ यदा स्पृशति तन्मीनो बाडिशं भक्षयेच्च तम्() । यदा चलति य(त)द्भेदं तदाऽऽया(घा)तं प्रयोजयेत् ॥ २८ ।। मांसााशिनां तथी मग्रे(भग्नो) चलने पिष्टभोजिना । गोलपोतो यदा मत्स्यो भवेच्च प्रबलायते ॥ २९ ॥ बलहीनं तु(त) मार्ष ब(र्षेद्र)लिष्ठो यष्टिमुत्सृजेत् । शनैः शनैस्तमाकर्षेद्रज्जुस्त्रुट्यात नो यथा ॥ १४३०॥ यष्टिमोक्षे समाकर्षेत्पुच्छरज्जुं प्रगृह्य वा । एवं मत्स्यविनोदोऽयं नामरूपादिभेदतः ॥ ३१ ॥ भूलोकमल्लदेवेन वर्णितः पृथिवीभुजा । प्रमोदाय विनोदोऽयं नाम मत्स्यसमाश्रयः ॥ ३२ ॥ कथितः सोमभूपेन वैश्यते मृगयाश्रयः ।
इति मत्स्याविनोदः ॥ १४ ॥
- १ D तः । २ A वक्र । ३ A डी। ४ A ज्जू । ५ A त्ततु । ६ A श्रृ । ७ D ज्जा । ८ A ज्ञेय । ९० पाः। १० D यान्तं । ११ A मत्स्या। १२ D यामग्ने । १३ A त । १४ D नां। १५ A. गतप्रोतो। १६ A च । १७ A नु। १८ D र्षद् । १९ A यदि । २० A ज्जुः स्फुट । २१ A णि भे, न। २२ A तं । २३ A तं । २४ A चक्ष । २५A याः Fया।
Aho! Shrutgyanam