SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ************************ www.bobatirth.org पञ्चेन्द्रियात्मके । उत्पद्यते क्रमेणैष- लभते मानवीं गतिम् ॥ १६ ॥ लब्धेऽपि मानुष्यभवेऽशुभानां, संयोगतोऽलब्धशुभोपचारः । प्रयाति जीवः पुनरेव मूढः श्वश्रादिकां दुर्गतिमन्पपुण्यः ॥ २० ॥ दुरन्तविपदामासां निदानन्तु विषयकपाया एव निगद्यन्ते, तदासक्ता जीवा विवेकविकलाः कृत्याकृत्यंनविदन्ति, अतएव ते स्वहितंन साधयन्ति ममत्त्वाभिमानिनः विषयोपगतं जीवं, ममश्वगणिका पटुः । वशीकृत्य यथाकामं, नर्त्तयत्यशुभान्वितम् ॥ १॥ ममन्वधीः सर्वविनाशहेतु-र्मममूलो भवसंभ्रम | नैवं पराधीनविमुग्धजीवो - जानाति दुर्दैवविलुप्तभावः ॥ २ ॥ विस्मृतस्वस्वरूपः स, सेवते बाह्यसम्प दम् | अज्ञातशुद्धदेवादि - स्वरूपस्तत्पराङ्मुखः ॥ ३ ॥ कुदेवादिरतः सत्यं देवादिं न स मन्यते । अज्ञानतिमिरान्धो हि सत्यासत्यं न पश्यति || ४ || पुनरपि तैजसकार्मण - शरीरनौकां समाश्रयञ्जीवः । भववारिनिधौ विषमे भ्रमयति तां भ्रान्तचेतसा नित्यम् ॥ ५ ॥ एवं परिभ्रमन्ती सा भवान्धौ क्षुभिताऽप्यलम् । अर्हन्मततटं नैव, लभते मोक्षदायकम् ॥ ६ ॥ एवं परिभ्रमन्भूयः शुभावाप्तिर्भवेद्यदा । तदा जीवः स्वहितक-त्सम्यक्त्वं लभते चिरात् ॥ ७ ॥ क्रमेण देशविरतिं, भजते व्रतकर्मणि । प्रत्याख्याने च तस्याशु, जायते रुचिरा रुचिः ॥ ८ ॥ पुरार्जितानि कर्माणि, विशीर्यन्ते शनैः शनैः । पालयन्तस्ततः श्राद्ध - व्रतानि द्वादशार्हताः || ६ || लभन्ते सर्वविरतिं, केचित्पुण्यानुसारिणः । ततश्चारित्रमादाय, पालयन्तोऽप्रमादिनः || १० || पञ्च प्राणान्समाराध्य, पूरकादिविधानतः । क्रमेणाष्टाङ्गेयोगं ते साधयन्ति प्रभाविनः ॥ ११ ॥ तारादृष्टि १ हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥ १ ॥ २ यम १ नियमाss २ सन, ३ प्राणायाम, ४ प्रत्याहार, धारणा, ६ ध्यान, ७ समाधयोड ८ ष्टावङ्गानि । For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr 1030 ***+130-465.0 *++*०*०
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy