Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
षष्ठोऽध्यायः।
मस्थतः ॥
एकान्तरं च वृद्धाङ्कमेवं रूपेण पूरणम् । मध्यकोष्टं ततः प्राज्ञैः पूरणीयं शिरःस्थितैः ॥ शिरःस्थितोकायाङ्कमेकीकृत्य प्रपूरयेत् । एवं क्रमेण सिद्धः स्यान्मात्रामेरुन संशयः ॥ ७॥
इति खण्डमात्रामेरुः ॥(१)
अथ सङ्ख्यानम् । अथ क्रमप्राप्तां सङ्ख्यामाख्यातिलगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते ॥ उद्दिष्टाङ्कसमाहारः सैका वा जनयेदिमाम् ॥ ८॥
(१)अथ मर्कटी। मात्रामर्कटीवर्णमकटीभेदेन द्विधा सा। तत्र इयतीनां मात्राणां प्रस्तारे इयन्तो गुरुवर्णाः इयन्तो लघवः इयन्तः सर्वे सम्भूय वर्णाः इयत्यः कलाः इत्यादि सर्वमेकत्र मात्राच्छन्दसामनया ज्ञायते इतिमात्रामर्कट्यपयोगः । तथव वर्णमर्कट्याऽपि प्रस्तारजन्या छन्दःसङ्ख्या तदन्तर्गता लघुगुरूवसङ्ख्या लघुगुर्वन्ता रूपसङ्ख्या सर्वकलासङ्ख्या इत्यादिसर्वमेकत्र वपुच्छन्दसां शायत इति वर्णमर्कट्युपयोगः । तत्रादौमात्रामर्कट्या रीतिः प्रस्तूयते-तथाहि-ऊ; रेखाः षट् लेख्याः।यावतीनां मात्राणां मर्कट्याश्चिकीर्षा तावत्य अधोरेखा लेख्याः । एवं कृते यथेष्टकोष्ठकानि भविष्यन्ति तत्र अपेक्षितमात्रापर्यन्तंप्रथमपन्तयां क्रमेण एकद्वित्रिचतुराद्यङ्का लेख्याः। द्वितीयपङ्क्त्यां एकद्वित्रिपञ्चाष्टादिभेदसङ्ख्या लेख्या। तृतीयपङक्त्यां ऊर्ध्वकोष्ठद्वयस्थाङ्कयोर्गुणनफलाङ्काः क्रमेण लेख्याः । एवं च सा पङक्तिः सर्वकलाबोधिका भवति । चतुर्थपञ्चमपन्योः पूर्वं षष्ठ्यां पतयामङ्कालेख्याः। ते यथा षष्ठपन्तयाः प्रथमकोष्ठे एकाङ्को लेख्यः तमङ्घ विगुणी कृत्य तृतीयपङ्क्तिस्थद्वितीयकोष्ठस्थिताङ्के हापयित्वा शिष्टमङ्कषष्ठपक्यां द्वितीयकोष्ठे न्यसेत् । पुनस्तमकुं. द्विगुणीकृत्य तृतीयपङक्तिस्थतृती. यकोष्ठस्थिताङ्के हापयित्वा शिष्टमकं षष्ठपक्यां तृतीयकोष्ठे न्यसेत् । एवं. यावत्पङ्क्तिसमाप्ति कार्यम् । सेयं षष्ठी पङ्क्तिः लध्वक्षरबोधिका भवति । पश्चमपत्तियां प्रथमकोष्ठे (0) शून्यं स्थापयेत् । द्वितीयादिकोष्टेषु षष्ठपङक्तिस्थिता एकाद्यङ्काः क्रमेण स्थाप्याः । सा चेयं पञ्चमीपङ्क्तिर्गर्वक्षरवि. बोधिना भवति चतुर्थपङ्क्त्यामधोऽधःस्थितकोष्ठद्वयस्थाङ्कयोमेलनाङ्कः स्थाप्यः । सैषा चतुर्थी पङ्क्तिः स्यात्प्तर्ववर्णविबोधिनी । इति यथा । -

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306