Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 287
________________ ૨૫૪ न तु यथा ममैव- अम्बरेऽम्बुभरलम्बिपयो दे मत्तबर्हिरुचिरेऽद्विनितम्बे ॥ पुष्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्बे ॥ द्रुतताललयैरेव व्यक्तं रूक्षाक्षरैः पदैः ॥ प्रनर्तयति यच्चितं तत्तोटकमभीप्सितम् ॥ १६ ॥ मदघूर्णितलोचनषट्चरणं यथा मम- सुवृत्ततिलकम् । घनरागमनङ्गकराभरणम् ॥ कमलद्युति मुग्धवधूवदनं सुकृती पिबतीह सुधासदनम् ॥ समस्तपदैः पादसन्धिविच्छेदसुन्दरम् ॥ सर्वपादैर्विसर्गान्तैवंशस्थं यात्यनघताम् ॥ १७ ॥ यथा भट्ठबाणस्य -- जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ॥ सुरासुराधीशशिखान्तशायिनस्तमश्छिदस्त्र्यम्बकपादपांसवः ॥ विपरीतं यथास्यैव- नमामि भर्वोश्चरणाम्बुजद्वयं यथा मम- सशेखरैमैौखरिभिः कृतार्चनम् ॥ समस्तसामन्तकिरीटवेदिका विटङ्क पीठोल्लुठितारुणाङ्गुलि ॥ प्रारम्भे दूतविन्यासं पर्यन्तेषु विलम्बितम् ॥ विच्छित्त्या सर्वपादानां भाति द्रुतविलम्बितम् ॥ १८ ॥ कमलपल्लववारीकणोपमं किमिव पासि सदा निधनं धनम् ॥ कलभकर्णचलाञ्चलचञ्चलं स्थितराणि यशांसि न जीवितम् ॥ द्रुतहीनं विलम्बितं यथा मम- निपततां भ्रमतां विनिमज्जतां प्रविशतां परिवारशतैरधः ॥

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306