Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 285
________________ २५२ सुवृत्ततिलकम् । यथा कालिदासस्य तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः॥ दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ उपजातिविकल्पानां सिद्धो यद्यपि सङ्करः ॥ तथापि प्रथमं कुर्यात्पूर्वपादाक्षरं लघु ॥ ६॥ यथा श्रीमदुत्पलराजस्य हृताञ्जनश्यामरुचस्तवैते ___ स्थूलाः किमित्यश्रुकणाः पतन्ति ॥ भृङ्गा इव व्यायतपतयो ये तनीयसी रोमलतां श्रयन्ति ॥ सूत्रस्येवात्र तीक्ष्णाग्रं श्लोकस्य लघुना मुखम् ॥ कर्ण विशति निर्विघ्नं सरलत्वं च नोज्झति ॥ ८॥ गुर्वक्षरेण संरुद्धं ग्रन्थियुक्तमिवाऽग्रतः॥ करोति प्रथम स्थूलं किंचित्कर्णकदर्थनाम् ॥ ८॥ यथा कालिदासस्य-- अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ॥ पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ ध्यक्षरैयक्षररेव च्छेदैराभाति दोधकम् ॥ . अतोऽल्पैरधिकैर्वापि यति तालमिवोज्झति ॥ ६ ॥ यथा मम--- सज्जनपूजनशीलनशोभा मर्जय वर्जय दुर्जनसङ्गम् ॥ दुस्तरसंसृतिसागरवेगे मज्जनकारणवारणमेतत् ॥ अतोऽल्पाधिकैर्यथा तुजीरस्य-- त्वन्मुखचन्द्रनिरीक्षणवा __ यः सुतरामिह निर्मलनेत्रः ॥ सर्वजनस्य पुरः स्थितमेत त्सोऽन्तकवर्त्म न पश्यति चित्रम् ॥ शालिनी श्लथबन्धैव स्वभावेन विभाव्यते ॥ उत्तेजयेत्तां यत्नेन मन्ददीपशिखामिव ॥ १० ॥

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306