Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
२६४
•
सुवृत्ततिलकम् ।
वसन्ततिलकं भाति सङ्करे वीररौद्रयोः ॥ कुर्यात्सर्गस्य पर्यन्ते मालिनीं द्रुततालवत् ॥ १६ ॥
वाररौद्रयोर्यथा रत्नाकरस्य
जृम्भाविकासितमुखं नखदर्पणान्तराविष्कृतप्रतिमुखं गुरुरोषगर्भम् ॥
रूपं पुनातु जनितारिचमूविमर्शमुद्वृत्तदैत्यवधनिर्वहणं हरेर्वः ॥
सर्गान्ते यथा कालिदासस्य —
अवचितबलिपुष्पा वेदिसम्मार्गदक्षा
नियमविधिजलानां बर्हिषां चोपनेत्री ॥
गिरिशमुपचचार प्रत्यहं सा सुकेशी
नियमित परिखेदा तच्छिरश्चन्द्रपादैः ॥ उपपन्नपरिच्छेदकाले शिखरिणी मता ॥ श्रौदार्य रुचिरौचित्यविचारे हरिणी वरा ॥ २० ॥ उपपन्नपरिच्छेदे यथा भर्तृहरेः
भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विचित्रालापानां वयमपि कवीनामनुचराः ॥ तथाप्येवं ब्रूमो न हि परहितात्पुण्यमपरं
न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥
औदार्येऽप्यस्यैव-
विपुलहृदयैरन्यैः कैश्चिज्जगज्जनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ॥ इह हि भुवनान्यन्ये धीराचतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः । साक्षेपक्रोधधिक्कारे परं पृथ्वी भरक्षमा ॥ प्रावृप्रवासव्यसने मन्दाक्रान्ता विराजते ॥ २१ ॥ साक्षेपे यथा यशोवर्मणः-
स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे
गतः स्फुटमबन्ध्यतामधिपयोधि सान्ध्यो विधिः ॥ तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा
क स क स दशाननो ननु निवेद्यतां राक्षसः ॥
प्रावृट्प्रवासे यथा कालिदासस्य -
तस्मिन्नौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ॥

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306