Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 280
________________ प्रथमो विन्यासः। २४७ यथा मम--- सप्ताक्षरसमायुक्तं जसाभ्यां गुरुणा तथा ॥ अविरामं विदुर्वृत्तं कुमारललिताभिधम् ॥ ११॥ यथा मम जनं स्मृतिदशाप्तं गतानुगतिकः किम् ॥ न शोचति जनोऽयं कुमारललितं तत् ॥ मकारयुगपर्यन्ते यत्संयुक्तगुरुद्वयम् ॥ विद्युन्मालाभिधं तद्धि वृत्तमष्टाक्षरं विदुः ॥ १२ ॥ यथा मम--- ___ मौनं ध्यानं भूमौ शय्या गुर्वी तस्याः कामावस्था ॥ . मेघोत्सङ्गे नृत्तासक्ता यस्मिन्काले विद्युन्माला ॥ लघोर्गुरोश्च विच्छित्त्या यत्रानन्तर्यसङ्गतिः॥ वृत्तप्रमाणनिपुणैः सा प्रमाणीति कीर्तिता ॥ १३ ॥ लघु श्रुतं मदोद्धतं गुरुश्रमाय केवलम् ॥ न यत्परोपकारकृतथैव तत्प्रमाण्यपि ॥ पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः ॥ गुरु षष्ठं च सर्वेषामेतच्छलोकस्य लक्षणम् ॥ १४ ॥ असङ्ख्यो भेदसंसर्गादनुष्टुप्छन्दसा गणः ॥ तत्र लक्ष्यानुसारेण श्रव्यतायाःप्रधानता ॥ १५ ॥ यथा भगवतो व्यासस्य-- ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ॥ नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ नवाक्षराऽपि ननभैरक्षरैरुपलक्षिता ॥ भुजगाग्रा शिशुसृता कथिता वृत्तकोविदः ॥ १६ ॥ यथा मम-- न नमति चरणौ भक्त्या किमिति जडमतिर्लोकः ॥ भवभयशमनौ शम्भोर्भुजगशिशुसृतावप्रे॥ संयुक्तं भमसैरन्ते गुरुणा च दशाक्षरम् ।। वृत्तं रुक्मवती नाम कथितं वृत्तशालिभिः ॥ १७ ॥ यथा मम-- भनमसत्यैः कायसहर्मोहमयी गुर्वी भवमाया ॥ स्वप्नविलासा योगवियोगा रुक्मवती हा कस्य कृते श्रीः ॥ तकाराभ्यां जकारेण युक्तं गुरुयुगेन च ॥ इन्द्रवज्राभिधं प्रादुर्वृत्तमेकादशाक्षरम् ॥१८॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306