Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
द्वितीयो विन्यासः ।
महिषमहासुरस्य शिरसि प्रसभं निहितः सकलमहीधरेन्द्रगुरुतां कथमम्ब ! गतः ॥
विपरीतं यथास्यैव—
सशिखिशिखेव धूमनिचिताञ्जनशैलगुहा सकपिशपन्नगेव यमुनोन्नतनीलशिला ॥
महिषमहासुरोपहितभासुरशूलकरा
बहुलनिशेव भासि सतडिद्गुणमेघयुता ॥ श्रसमासः पदर्भाति पृथ्वी पृथ्वी पृथक्स्थितैः ॥ समासग्रन्थिभिः सैव याति सङ्कोचखर्वताम् ॥ २७ ॥
पृथक्पदा यथा साहिलस्य-
कचग्रहमनुग्रहं दशनखण्डनं मण्डनं दृगश्ञ्चनमवञ्चनं मुखरसार्पणं तर्पणम् ॥
नखार्दनमर्दनं दृढमपीडनं पीडनं.
" करोति रतिसङ्गरे मकरकेतनः कामिनाम् ॥
समासवती यथा मम --
कचग्रहसमुल्लसत्कमलकोषपीडाजड
द्विरेफ कलकूजितानुकृतसीत्कृतालङ्कृताः जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदृशां प्रमोदमनिर्भर प्रणयचुम्बनो विभ्रमाः ॥ पृथ्वी साकारगम्भीरैरोजः सर्जिभिरक्षरैः ॥ समासग्रन्थियुक्तापि याति प्रत्युत दीर्घताम् ॥ २८ ॥
यथा भट्टनारायणस्य
महाप्रलयमारुतक्षुभितपुष्करावर्तक
प्रचण्डघनगर्जित प्रतिरुतानुकारी मुहुः ॥ रवः श्रवणभैरवः स्थगित रोदसीकन्दरः
कुतोऽद्य समरोदधेरयमभूतपूर्वः श्रुतः ॥ स्वरातरलविच्छेदैर्विभाति हरिणी पदैः ॥ मन्थरैर्ग्रन्थिबद्धेव याति निःस्पन्दसङ्गताम् ॥ २६ ॥ तरलपदा यथा दीपकस्य --
तनुधनहर क्रूरस्तेनोत्कटां विकटाटवी
३३
तरति तरसा शौर्योत्सेकात्स्वसार्थवशाज्जनः ॥
पुरवरवधूलीलावल्गत्कटाक्षबलाकुले
नगरनिकटे पन्थाः पान्थ ! स्फुटं दुरतिक्रमः ॥
२५७

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306