Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 281
________________ २४ सुवृत्ततिलकम् । यथा मम-- तौ जन्मगूढौ चरणेन यस्य कष्टौ निविष्टौ हृदि कामकोपौ ॥ तं दुःसहास्ता ज्वलदिन्द्रवज्रपातोपमाः क्लेशदशा विशन्ति ॥ जतजैर्गुरुयुग्मेन संसक्तैरुपलक्षितम् ॥ वदन्त्युपेन्द्रवज्राख्यं वृत्तमेकादशाक्षरम् ॥ १६ ॥ यथा मम-- जितो जगत्येष भवभ्रमस्तैर्गुरूदितं ये गिरिशं स्मरन्ति ॥ उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ॥ पदानन्तरविन्यासयोगैर्बहुभिरेतयोः।। वैचित्र्यजातिरुचिरा भवन्त्येवोपजातयः ॥ २० ॥ भकारत्रयसंयुक्तमन्ते गुरुयुगान्वितम् ।। कथितं दोधकं नाम वृत्तमेकादशाक्षरम् ।। २१ ॥ यथा मम-- भो भवविभ्रमभङ्गुरभोगा गच्छत नास्त्यधुना मम मोहः ॥ तिष्ठति चेतसि चन्द्रकलाभृद्भक्तजनाभयदोऽथ कपाली ॥ पूर्वाक्षरचतुष्कान्तविरतिर्मततान्विता ।। गुरुद्वितययुक्ता च शालिन्येकादशाक्षरा ॥ २२ ॥ यथा मम-- मत्ता गोष्ठीगर्भमूढप्रलापा प्रौढा गाढालिङ्गिता यौवनेन ॥ मध्वाताम्रस्वेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ॥ रनरैरन्वितं युक्तं लघुना गुरुणा तथा ॥ ख्यातं रथ द्धतानाम वृत्तमेकादशाक्षरम् ॥ २३ ॥ यथा मम रम्यनर्मकलभोगतर्जनी भूलतेव तरलारियोषिताम् ॥ वैजयन्त्यभिमुखी रणे रणे भाति ते नरपते रथोद्धता ॥ गुरुद्वययुतैरन्तेरनभैरुपलक्षिता ॥ गदिता स्वागतानाम वृत्तमेकादशाक्षरम् ॥ २४ ॥ यथा मम-- रत्नभङ्गविमलैर्गुणतुङ्गैरर्थिनामभिमतार्पणसक्तैः ॥ . स्वागताभिमुखनम्रशिरस्कैर्जीव्यते जगति साधुभिरेव ॥ सकारैरन्वितं वृत्तं चतुर्भिर्युगपत्स्थितैः ।। उदितं तोटकं नाम वृत्तहादशाक्षरम् ।। २५ ।।

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306