Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 252
________________ द्वितीयः स्तबकः । तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसङ्गता । ... कथमेति वत्सचारकश्चपलः सदैव तां हरिः ॥ (१०) पातः । (दशाक्षरा वृत्तिः ।) रुक्मवती सा यत्र भमस्गाः ॥१॥ कायमनोवाक्यैः परिशुद्धैर्यस्य सदा कंसद्विषि भक्तिः । राज्यपदे हालिरुदारा रुक्मवती विघ्नः खलु तस्य ॥ रूपवतीयं क्वचित् । क्वचिच्चम्पकमाला च । ज्ञेया मत्ता मभसगसृष्टा ॥२॥ पीत्वा मत्ता मधु मधुपाली कालिन्दीये तटवनकुञ्ज । उद्दीव्यन्तीव्रजजनरामाः कामासक्ता मधुजिति चक्रे ॥ त्वरितगतिश्च नजनगैः॥३॥ त्वरितगतिवंजयुवतिस्तरणिसुता विपिनगता । मुररिपुणा रतिगुरुणा परिरमिता प्रमदमिता ॥ क्षितिविजितिस्थितिविहितव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम् ॥ इति दण्डिनि । नरजगैर्भवन्मनोरमा ॥४॥ तरणिजातटे विहारिणी व्रजविलासिनीविलासतः । मुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनोरमा ॥ (११) त्रिष्टुप् । ( एकदशाक्षरा वृत्तिः । ) स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ १॥ गोष्ठे गिरि सव्यकरण धृत्वा रुष्टेन्द्रवज्राहतिमुक्तवृष्टौ ॥ यो गोकुलं गोपकुलं च सुस्थं चक्रे स नो रक्षतु चक्रपाणिः ॥ उपेन्द्रवज्रा प्रथमे लघौ सा ॥२॥ उपेन्द्र ! वज्रादिमणिच्छटाभि विभूषणानां छुरितं वपुस्ते ॥ स्मरामि गोपीभिरुपास्यमानं ... सुरदुमूले मणिमण्डपस्थम् ॥ अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः॥

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306