SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। मस्थतः ॥ एकान्तरं च वृद्धाङ्कमेवं रूपेण पूरणम् । मध्यकोष्टं ततः प्राज्ञैः पूरणीयं शिरःस्थितैः ॥ शिरःस्थितोकायाङ्कमेकीकृत्य प्रपूरयेत् । एवं क्रमेण सिद्धः स्यान्मात्रामेरुन संशयः ॥ ७॥ इति खण्डमात्रामेरुः ॥(१) अथ सङ्ख्यानम् । अथ क्रमप्राप्तां सङ्ख्यामाख्यातिलगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते ॥ उद्दिष्टाङ्कसमाहारः सैका वा जनयेदिमाम् ॥ ८॥ (१)अथ मर्कटी। मात्रामर्कटीवर्णमकटीभेदेन द्विधा सा। तत्र इयतीनां मात्राणां प्रस्तारे इयन्तो गुरुवर्णाः इयन्तो लघवः इयन्तः सर्वे सम्भूय वर्णाः इयत्यः कलाः इत्यादि सर्वमेकत्र मात्राच्छन्दसामनया ज्ञायते इतिमात्रामर्कट्यपयोगः । तथव वर्णमर्कट्याऽपि प्रस्तारजन्या छन्दःसङ्ख्या तदन्तर्गता लघुगुरूवसङ्ख्या लघुगुर्वन्ता रूपसङ्ख्या सर्वकलासङ्ख्या इत्यादिसर्वमेकत्र वपुच्छन्दसां शायत इति वर्णमर्कट्युपयोगः । तत्रादौमात्रामर्कट्या रीतिः प्रस्तूयते-तथाहि-ऊ; रेखाः षट् लेख्याः।यावतीनां मात्राणां मर्कट्याश्चिकीर्षा तावत्य अधोरेखा लेख्याः । एवं कृते यथेष्टकोष्ठकानि भविष्यन्ति तत्र अपेक्षितमात्रापर्यन्तंप्रथमपन्तयां क्रमेण एकद्वित्रिचतुराद्यङ्का लेख्याः। द्वितीयपङ्क्त्यां एकद्वित्रिपञ्चाष्टादिभेदसङ्ख्या लेख्या। तृतीयपङक्त्यां ऊर्ध्वकोष्ठद्वयस्थाङ्कयोर्गुणनफलाङ्काः क्रमेण लेख्याः । एवं च सा पङक्तिः सर्वकलाबोधिका भवति । चतुर्थपञ्चमपन्योः पूर्वं षष्ठ्यां पतयामङ्कालेख्याः। ते यथा षष्ठपन्तयाः प्रथमकोष्ठे एकाङ्को लेख्यः तमङ्घ विगुणी कृत्य तृतीयपङ्क्तिस्थद्वितीयकोष्ठस्थिताङ्के हापयित्वा शिष्टमङ्कषष्ठपक्यां द्वितीयकोष्ठे न्यसेत् । पुनस्तमकुं. द्विगुणीकृत्य तृतीयपङक्तिस्थतृती. यकोष्ठस्थिताङ्के हापयित्वा शिष्टमकं षष्ठपक्यां तृतीयकोष्ठे न्यसेत् । एवं. यावत्पङ्क्तिसमाप्ति कार्यम् । सेयं षष्ठी पङ्क्तिः लध्वक्षरबोधिका भवति । पश्चमपत्तियां प्रथमकोष्ठे (0) शून्यं स्थापयेत् । द्वितीयादिकोष्टेषु षष्ठपङक्तिस्थिता एकाद्यङ्काः क्रमेण स्थाप्याः । सा चेयं पञ्चमीपङ्क्तिर्गर्वक्षरवि. बोधिना भवति चतुर्थपङ्क्त्यामधोऽधःस्थितकोष्ठद्वयस्थाङ्कयोमेलनाङ्कः स्थाप्यः । सैषा चतुर्थी पङ्क्तिः स्यात्प्तर्ववर्णविबोधिनी । इति यथा । -
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy