SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ __ [८६ ] एकान्तग्रहविपक्षरूपात्, अनेकान्तत:-अनेकान्तग्रहात् इदं गुणवदोषवच्चेत्येवमनेकान्तज्ञानादिति यावत्, एव-अवधारणार्थकमन्यव्यवच्छेदपरं वाऽव्ययम् , उपेक्षायाः-इदमसेव्यमगम्यमकरणीयमध्यानीय मित्यादिबुद्धिविषयतायाः सम्भवो-योग्यता, अन्यथाअनेकान्तव्यतिरिक्तात् , न-नहि उपेक्षासम्भव इति शेषः । तत्र युक्तिमुपपादयति-तथाहीत्यादिना-उभयात्मकैकत्वोपग्रहात्-उभयात्मकमेकमिदमित्याकारकज्ञानादित्यर्थः । तद्विदाम्-प्रत्येकं वस्तुन्युभयात्मकत्वं जानतां सहृदयानाम् । स्त्रीशरीरादिषु उपेक्षैव असेवनीयमित्यादिबुद्धिविषयतैव दृश्यते-अवलोक्यते । तस्याम्बुद्धिविषयीभूतायां खियाम् । गुणा:-वात्सल्य-भक्तिभाव-व्रतोपवासशक्त्यादयः । च-पुनः । दोषा:-मात्सर्यातिलुब्धत्वादीनि दूषणानि सन्तीति हतयाऽनया किमिति व्यावहारिकाणां व्यवहारदर्शनादिति शब्दार्थः । नन्वनेकान्तत्वं, जानतामपि न सर्वेषां भवत्युपेक्षा किन्तु संवरशा लिनामेव जीवानामिति दिदर्शयिषयाऽऽह सा चोपेक्षेत्यादि । ६४-(मूलम् ) सा चोपेक्षा संघरवतां सचानां. निमित्ताभावेन अभावादागन्तुकमलस्य तच्चोपेक्षा परिणामादिहेतुतः, प्रक्षयात् (च)माक्तनस्य । "सा चोपेक्षा संवरवतां सत्त्वानाम् , तच्च निमित्ताभावेन आगन्तुकमलस्याभावात् उपेक्षापरिणामा दिहेतुतः प्राक्तनस्य प्रक्षयात्" इत्येवमन्वयः कल्पनीयः । तच्च-संवरवत्त्वश्च । उपेक्षापरिणामादिहेतुत:-उपेक्षापरिपाकादिकारणतः । प्राक्तनस्य पूर्वकाल जातस्य । प्रक्षयात्-विनाशात् । नन्वेतावता संवरवतां सत्त्वानामुपेक्षा
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy