Book Title: Jagat Kartutva Mimansa Prakaranam Author(s): Shivanandvijay Publisher: Jain Granth Prakashak Sabha View full book textPage 7
________________ भ्रान्तिधर्मस्वेनासिद्धत्वात् , अस्मादृशां तु ज्ञानावरणादिकर्मसाचि. व्येन भ्रान्तत्वसम्भवात् , न तु स्वभावात् , तस्य ज्ञानस्वभावाच्च । किश्च कथं तस्य वर्णसमूहस्वरूपवाक्यात्मकशास्त्रस्यानाद्यनिधनता?, वर्णमात्रं हि कण्ठताल्वाधभिघातमूलकं, तस्य च पुरुषनियतत्वात् । ___ अथ न खलु शास्त्रं पुरुषं नापेक्षत इति, किन्तु कल्पक पुरुषो न इति चेत् , अस्माकमपीदमभीष्टमेव, तथाचागमः " इच्चेइयं दुवालसंग न कयाइ नासी न कयाइ न भवइ न कयाइ न भविस्सइ धुवे निचे" इत्यादिः।। किञ्च पुरुषमात्रस्य भ्रान्तिस्वभावत्वस्वीकारे शास्त्रस्यानाद्यनिधनत्वाभ्युपगमेऽपि न निस्तारः, तदुक्तार्थावगमनिश्चयाभावात् , उच्चारयितरि पुरुषे विश्वासाभावात् पुरुषधर्मानतिलङ्घनात् । तस्मात्प्रामाण्यविषयकविप्रतिपत्तिनिराकरणे पूर्वोक्तस्वरूपकषच्छेदतापाप्रतिमैकबलं युक्तिसाम्राज्यमेवानन्यशरणम् । एवं तस्य वेदस्यानाद्यनिधनत्वेनाभ्युपगतस्य पूर्वोक्तस्वरूपकषादिभिः शुद्धत्वाभावान्न प्रामाण्यम् , अशुद्धत्वञ्च यथा तस्य वेदस्यार्थकामविमिश्रक्लप्तकथाव्याप्तत्वेन मोक्षैकगोचराणां विधिप्रतिषेधानां प्रतिपादकत्वाभावात् , आनुषङ्गिकमोक्षार्थप्रतिपादकत्वेऽपि तस्य मुख्यैकप्रतिपादकत्वाभावान्न तस्य कषपरीक्षायां शुद्धत्वम् । एवं छेदपरीक्षायामपि न तस्य शुद्धत्वम् , अन्यार्थोत्सृष्टान्यार्थापोह्यत्वप्रतिपादकत्वेन दुर्विधविधिप्रतिषेधाभिधायकत्वात् , एवं “ उदिते जुहोति, अनुदिते जुहोति" " मा हिंस्यात्सर्वाभूतानि " " पशूनालभेत" इत्यादिपरस्परविरुद्धार्थप्रतिपादकत्वेन तात्पर्यस्यैवानवधारणात् , तदश्याPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 88