SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ भ्रान्तिधर्मस्वेनासिद्धत्वात् , अस्मादृशां तु ज्ञानावरणादिकर्मसाचि. व्येन भ्रान्तत्वसम्भवात् , न तु स्वभावात् , तस्य ज्ञानस्वभावाच्च । किश्च कथं तस्य वर्णसमूहस्वरूपवाक्यात्मकशास्त्रस्यानाद्यनिधनता?, वर्णमात्रं हि कण्ठताल्वाधभिघातमूलकं, तस्य च पुरुषनियतत्वात् । ___ अथ न खलु शास्त्रं पुरुषं नापेक्षत इति, किन्तु कल्पक पुरुषो न इति चेत् , अस्माकमपीदमभीष्टमेव, तथाचागमः " इच्चेइयं दुवालसंग न कयाइ नासी न कयाइ न भवइ न कयाइ न भविस्सइ धुवे निचे" इत्यादिः।। किञ्च पुरुषमात्रस्य भ्रान्तिस्वभावत्वस्वीकारे शास्त्रस्यानाद्यनिधनत्वाभ्युपगमेऽपि न निस्तारः, तदुक्तार्थावगमनिश्चयाभावात् , उच्चारयितरि पुरुषे विश्वासाभावात् पुरुषधर्मानतिलङ्घनात् । तस्मात्प्रामाण्यविषयकविप्रतिपत्तिनिराकरणे पूर्वोक्तस्वरूपकषच्छेदतापाप्रतिमैकबलं युक्तिसाम्राज्यमेवानन्यशरणम् । एवं तस्य वेदस्यानाद्यनिधनत्वेनाभ्युपगतस्य पूर्वोक्तस्वरूपकषादिभिः शुद्धत्वाभावान्न प्रामाण्यम् , अशुद्धत्वञ्च यथा तस्य वेदस्यार्थकामविमिश्रक्लप्तकथाव्याप्तत्वेन मोक्षैकगोचराणां विधिप्रतिषेधानां प्रतिपादकत्वाभावात् , आनुषङ्गिकमोक्षार्थप्रतिपादकत्वेऽपि तस्य मुख्यैकप्रतिपादकत्वाभावान्न तस्य कषपरीक्षायां शुद्धत्वम् । एवं छेदपरीक्षायामपि न तस्य शुद्धत्वम् , अन्यार्थोत्सृष्टान्यार्थापोह्यत्वप्रतिपादकत्वेन दुर्विधविधिप्रतिषेधाभिधायकत्वात् , एवं “ उदिते जुहोति, अनुदिते जुहोति" " मा हिंस्यात्सर्वाभूतानि " " पशूनालभेत" इत्यादिपरस्परविरुद्धार्थप्रतिपादकत्वेन तात्पर्यस्यैवानवधारणात् , तदश्या
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy