________________
द्वितीयः स्तबकः ।
तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसङ्गता । ... कथमेति वत्सचारकश्चपलः सदैव तां हरिः ॥
(१०) पातः । (दशाक्षरा वृत्तिः ।) रुक्मवती सा यत्र भमस्गाः ॥१॥
कायमनोवाक्यैः परिशुद्धैर्यस्य सदा कंसद्विषि भक्तिः ।
राज्यपदे हालिरुदारा रुक्मवती विघ्नः खलु तस्य ॥ रूपवतीयं क्वचित् । क्वचिच्चम्पकमाला च । ज्ञेया मत्ता मभसगसृष्टा ॥२॥
पीत्वा मत्ता मधु मधुपाली कालिन्दीये तटवनकुञ्ज ।
उद्दीव्यन्तीव्रजजनरामाः कामासक्ता मधुजिति चक्रे ॥ त्वरितगतिश्च नजनगैः॥३॥
त्वरितगतिवंजयुवतिस्तरणिसुता विपिनगता ।
मुररिपुणा रतिगुरुणा परिरमिता प्रमदमिता ॥ क्षितिविजितिस्थितिविहितव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम् ॥ इति दण्डिनि । नरजगैर्भवन्मनोरमा ॥४॥
तरणिजातटे विहारिणी व्रजविलासिनीविलासतः । मुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनोरमा ॥
(११) त्रिष्टुप् । ( एकदशाक्षरा वृत्तिः । ) स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ १॥ गोष्ठे गिरि सव्यकरण धृत्वा
रुष्टेन्द्रवज्राहतिमुक्तवृष्टौ ॥ यो गोकुलं गोपकुलं च सुस्थं
चक्रे स नो रक्षतु चक्रपाणिः ॥ उपेन्द्रवज्रा प्रथमे लघौ सा ॥२॥ उपेन्द्र ! वज्रादिमणिच्छटाभि
विभूषणानां छुरितं वपुस्ते ॥ स्मरामि गोपीभिरुपास्यमानं ...
सुरदुमूले मणिमण्डपस्थम् ॥ अनन्तरोदीरितलक्ष्मभाजी
पादौ यदीयावुपजातयस्ताः॥