Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 459
________________ ३ पा. १ आ. शब्दकौस्तुमः । ४५९ मर्थमिति चेत् । नियमार्थमित्यवेहि । अत एवानुदात्तङित आत्मनेपदमवति व्याख्यातम् । सोयं प्रकृतिनियमः । उत्तरसूत्रे च भावकर्मणोरात्मनेपदमेवेति अर्थनियमः । यत्रैवकारस्ततोन्यत्रावधारणमिति सिद्धान्तात् । तथाहि । तदसम्बन्ध्यसम्बन्धो व्याप्तिः सैवावधारणम् । व्यापकत्त्वद्योतकैवशब्दसम्बदभिन्ननम् ॥ न चास्मिन्पक्षे अनुदात्तत्प्रभृतिभ्यः परस्मैपदं मा भूत् आत्मनेपदं त्वनियतत्त्वादत्तीत्यादावपि स्यादिति वाच्यम् । शेषात्परस्मैपदमवेति नियमात् । ननु तत्र कर्तरीत्युक्तेः कर्तरि परस्मैपदमेवास्तु । भावकर्मणोस्तु जागर्यते अद्यतइत्यादौ परस्मैपदं दुर्वारमेवोत चेन्न । भावकर्मणोरात्मनेपदमेवोत नियतत्वात् । अस्तु वा प्रत्ययनियमः । आत्मनेपदमनुदात्तङिन्त एवति । भावकर्मणोरेवेति । नचैवमनुदात्तेत्प्रभृतिभ्यः पस्मैपदप्रसङ्गः। परस्मैपदस्यापि शेषात्कर्तरीति नियतत्वात् । ननु कीदृशस्तत्र नियमः कर्तरि यदि परस्मैपदं भवति शेषादेवेति, शेषाद्यदि भवति कर्तर्येवेति वा, आये अशेषात्कर्तरि मा भूत् । भावकर्मणोस्तु शेषादशेषाच्च परस्मैपदं दुर्वारम् । अन्त्ये शेषाद्भावकर्मणोर्मा भूत्, अशेषात्तु भावकर्मकर्तृषु त्रिष्वपि प्राप्नोति । सत्यम् । योगविभागेन नियमद्वयं बोध्यम् । शेषादेव तत्रापि कर्तर्येवेति । तस्मादिह प्रकरणे प्रकृत्यर्थनियमः प्रत्ययनियमो वेति पक्षद्वयमपि स्थितम् । स्यादेतत् । विकरणव्यवधाने नियमो न प्राप्नोति । तथाहि । विकरणानामवकाशो लादेशभिन्नाः । इश्तिपौ धातुनिर्देशइति शितप् । पायाध्माधेदृशः शः । ताच्छील्यादिषु चानश् । नियमस्यावकाशः लिलिङौ लुइलुनमश्च । पस्पर्धे, स्पर्धिषीष्ट, आस्ते, शत, अत्ति, जुहोति, भिनत्ति, भूयादित्यादि । एधते,

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578