Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 543
________________ ५४३ ४ पा.३ आ. शब्दकौस्तुभः । द्योतयति । क्रयोनामात्यान्तिकं स्वीकरणं, नियतकालन्तु तस्य समीपमिति भावः ॥ __ आधारोधिकरणम् ॥ आध्रियन्तेस्मिन् क्रिया इत्याधारः । अध्यायन्यायोद्यावेत्यादिना करणे घम् । क्रियाश्रययोः कर्तृकर्मणोरणात् । परंपरया क्रियां प्रति आधारः तत्कारकमधिकरणं स्यात् । कटे आस्ते । स्थाल्यां पचति । स्यादेतत् । साक्षाक्रियाधारयोः कर्तृकर्मणोरेव कुतो नेयं संज्ञेति चेन । पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात् । अत एवाहुः । कर्तृकर्मव्यवहितामसाक्षाद्धारयक्रियाम् । उपकुर्वक्रियासिद्धौ शास्त्रधिकरणं विदुरिति ॥ अत एव भूतले घट इत्यादौ अस्तीत्यस्याध्याहारो नियतः । यथापुष्पेभ्य इत्यत्र स्पृहयतेः । अत एव च नया सह कारकान्वयं वदन्तः परास्ताः । त्रिविधं चैतदधिकरणमिति संहितायामिति सूत्रे भाष्यं , औपश्लोषिकं वैषयिकमभिव्यापक चेति । कटे आस्ते गुरौ वसति तिलेपु.तैलामिति ॥ ____ अधिशीङ्स्थासां कर्म । अधिपूर्वाणामेषां आधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः॥ ___अभिनिविशश्च ॥ एतत्पूर्वस्य विशतेराधारः कर्म स्यात् । ग्राममभिनिविशते । अभिानोश आग्रहः । तद्वान् भवतीत्यर्थः । अकर्मकोयं तत्राधिकरणस्य कर्मसंज्ञा विधीयते । प्रवेशनार्थे तु सिदैव । परिक्रयणेसम्पदानमिति मूत्रादिहान्यतरस्यांग्रहणमनुवर्तते मण्डकप्लुतिन्यायन । व्यवस्थितविभाषा चेयम् । एष्वथेष्वभिनिविष्टानामिति समर्थमूत्रस्थभाष्यप्रयोगह मानम् । तेन पापेभिनिवेश इत्यादि सिद्धम् । इह सूत्रे नेरल्पान्तरस्य परनिपाताकरणमीदृशानुपूर्वीकसमुदायविवक्षार्थम् । तेनेह न । निविशते यदि शूकशिखापदे इति । कर्मत्वविवक्षायान्तु तत्रापि

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578