Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 540
________________ ५४० शब्दकौस्तुभः । [१ अ० मार्ण्यति । मैनामन्योद्राक्षीदिति । नात्र भार्याम्पति कोपः किन्तु परैदृश्यमानां तां न क्षमतइत्येव । क्रुधद्रुहोरकर्मकतया कारकशेषत्वान्नटस्य शृणोतीतिवत् षष्ठयां प्राप्तायां वच. नम् । इतरयोस्तु सकर्मकत्वात् द्वितीयायां प्राप्तायाम् ॥ - क्रुधबुहोरुपसृष्टयोः कर्म ॥ सोपसर्गयोरनयोर्य प्रति कोपस्तकारकं कर्मसंज्ञं स्यात् । पूर्वसूत्रापवादः । देवदत्तमभिक्रुध्यति अभिद्रुह्यति ॥ . राधीक्ष्योर्यस्य विप्रश्नः ॥ एतयोः कारकं सम्प्रदानसंज्ञं स्यात् । यदीयो विविधः प्रभः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः । शुभाशुभपर्यालोचनमिह धात्वर्थः । शुभाशुभरूपयोः कर्मणोर्धात्वर्थेनोपसङ्ग्रहादकर्मकावेतौ । षष्ठयां प्राप्तायां वचनम् । अत एव राध्यतीति श्यन् । अकर्मकादेव तद्विधानात् । तथा च दिवाधन्तर्गणसूत्रं राधोकर्मकावृद्धावेवेति । अस्यार्थः । एवकारो भिन्नक्रमः। राघोकर्मकादेव । यथा वृद्धाविति। अत एव कर्मवत् कमणेति मूत्रे राध्यत्योदनः स्वयमेवेति भाष्यं सङ्गच्छते । तत्र हि सिध्यतीत्यर्थः। एतेन न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति । क्रियासमभिहारेण विराध्यन्तं क्षमेत क इति माघप्रयोगौ व्याख्यातौ । एतेनैतयोः कर्मकारकं सम्पदानं स्यादिति व्याचक्षाणाः परास्ताः । यस्येत्यनर्थकं यम्प्रतीत्यनुवृत्त्यैवेटसिद्धेः ॥ . प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता प्रतिपूर्व आपूर्वश्च शृणोतिरभ्युपगमे वर्तते तस्य पूर्वो व्यापार प्रवर्तनक्रिया तस्याः कर्ता सम्पदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा विप्रेण मद्यगां देहीति प्रवर्तितः प्रतिजानीतइत्यर्थः । हेतुसं

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578