Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 534
________________ शब्दकास्तुभः । [१ अ. सार्थकः परत्वात्तत्तत्संज्ञामाप्तावपि श्रेषत्वविवक्षायां न माषा- - णामश्नीयादित्यादाविव षष्ठया इष्टतया सत्रापादानसंज्ञाया पा. रणीयत्वादित्यवधेयम् ॥ . कर्मणा यमभिमैति स सम्पदानम् ।। कर्मणा करणभूतेन कर्ता यमभिप्रति सम्बन्धाति ईप्सति वा सत्कारकं सम्पदानं स्यात् । न च युगपत्कर्मत्वं करणत्वञ्च कथमिति वाच्यम् । क्रियाभेदेनाविरोधात् । दानक्रियायां हि कर्म अभिप्रापणक्रि. यायां करणम् । दीयमानया गवा हि शिष्य उपाध्यायमभिप्रैति । उपाध्यायाय गां ददाति । अत्राभिप्रैतीति पदत्रयम् । न तु समासः । उदात्तवता मतिमता च तिला गतेः समासो वक्तव्य इति वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः। भाषाविषयत्वे बाधकं तु तत्रैव वक्ष्यामः । अत्रवृत्तिकाराः । अन्व. र्थसंज्ञेयं सम्यक् प्रदीयते यस्मै तत्सम्प्रदानमिति । तेनेह न । स्जकस्य वस्त्रं ददाति । घ्नतः पृष्ठं ददाति । इह हि ददातिर्गौणः न तु वास्तवं दानमस्तीत्याहुः । भाष्ये तु नैतत्स्वीकृतं खडिकोपाध्यायस्तस्मै चपेटां ददाति । न शूद्राय मतिं दद्यादित्यादिप्रयोगात् । रजकस्य ददातीति तु शेषत्वविवक्षायांबोध्यम्। नन्वे. क्मजानयति ग्राममिति नयतिक्रियाकर्मभिरजैः सम्बध्यमानस्य ग्रामस्य सम्पदानत्वं स्यादिति चेन्न । यमधिप्रैतीत्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं कर्मणोति निर्दिष्टस्य गवादेः शेषत्वं च. प्रतीयते । यथा कभिमाये क्रियाफलइति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वं च । न चेह ग्राम प्रत्यजा शेषभूता तथा च प्रयोजकलक्षणे प्रासनवन्मैत्रावरुणाय दण्डप्रदानमित्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति दण्डदानं न प्रतिपत्तिः । किन्तु द्वितीयापेक्षया बलीयस्या चतुर्थी श्रुत्या ऽर्थ

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578