Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 539
________________ ४ पा. ३ आ. शब्दकौस्तुभः । ५३९ स्वरूपेणावतिष्ठमानं स्वभावादप्रच्यवमानं शतं प्रयुङ्क्तइत्यर्थः । कारकशेषे षष्ठ्यां प्राप्तायामिदं वचनम् । उत्तमर्णः किम् । देवदत्ताय शतं धारयति ग्रामे । परत्वादिहाधिकरणसंज्ञा भवि ष्यतीति चेत् । उत्तमर्णेपि तर्हि हेतुसंज्ञा स्यात् ॥ 1 स्पृहेरीप्सितः ॥ स्पृह ईप्सायां चुरादावदन्तः । अस्य प्रयोगे ऽभिप्रेतः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सि तमात्रे इयं संज्ञा । कर्ष विवक्षायान्तु परत्वात्कर्मसंज्ञा । पुपाणि स्पृहयति । यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्षितं तदा पष्ठयेवेति हरदत्तादयः । हेलाराजस्तु हेतुत्वे कर्मसंज्ञायामिति प्रागुक्तश्लोकव्याख्यावसरे स्पृहयतियोगे कर्मसंज्ञायाः शेषपयाश्च बाधिकेयं सम्प्रदानसंज्ञेत्याह । वाक्यपदीयम्वरसोप्येवम् । अस्मिन्पक्षे परस्परेण स्पृहणीयशोभमिति कर्मण्यनीयर दुर्लभः । दानीयो विम इतिवत्सम्प्रदानएव तु व्याख्येयः । तथा कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चेति षष्ठयप्यसङ्गता । विभक्तिविपरिणामेन कान्ताय स्पृहयन्तीति तु व्याख्येयम् । हरदत्तमते तु यथाश्रुतावेव उक्तप्रयोगौ निर्वाधाविति ॥ क्रुधदुहेर्पासूयार्थानां यम्प्रति कोपः ॥ क्रोधाद्यर्थानां धातूनां प्रयोगे यं प्रति कोपस्तत्कारकं सम्प्रदानं स्यात् । देवदत्ताय कुध्यति ह्यति ईर्ष्यति असूयति वा । वाक्चक्षुरादिविका रानुमेयः प्ररूढः । कोपोत्र क्रोधः । अपकारो द्रोहः । असहनमीर्ष्या । गुणेषु दोषारोपणमस्या । ननु चित्तदोषार्थानामित्येवास्तु किंको - धादीनां विशिष्योपादानेनेति चेन्न । द्विपादावतिप्रसङ्गात् । योस्मान्द्वेष्टीत्यादौ ह्यनभिन्दनं द्विषेरर्थः । अत एवाचेतनेवपि प्रयुज्यते औषधं द्वेष्टीति । यंमतीत्यादि किम् । भार्या -

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578