Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 549
________________ ४ पा. ३ आ. शब्दकौस्तुभः । ५४९ मतान्तरेण । अन्यथा तण्डुलानोदनं पचतीति प्रयोगस्य यथाश्रुतस्योपपत्तौ किं मुधा क्लेशेन । अत एव अकfaraब्दो प्रधानार्थी गृह्येत तदा पाणिना कांस्यपात्र्यां दोग्धि पय इति पाणिकांस्यपात्रयोरतिप्रसङ्गः करणाधिकरणयोस्तु पचत्यादिरवकाशः, न हि तत्रास्य प्रसङ्गो दुहादिपरिगणनादित्यकथितसूत्रे कथयतः कर्मवत्सूत्रे तु पचेोर्द्वकर्मकर्ता - वतो हरदत्तस्य न पूर्वापरविरोधः । मतभेदपरत्वात् । अत एव पचिधातुनिरूपणे तण्डुलानोदनं पचतीति प्रयोगं द्विकर्मकतयैव माधव उदाहृतवानिति दिक् । तथा ग्राहेर्दिकर्मकत्वं बहवो न मेनिरे । अत एव तमादौ कुलविद्यानामर्थमर्थविदां वरः । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पितेति कालिदास श्लोके पूर्वाग्रहेदुद्यर्थतया गतिबुद्धीतिसूत्रेणाणौ कर्तुर्णौ कर्मत्वात्तमिति योजयित्वा उत्तरार्धे तेनेति विभक्तिविपरिणामेन व्याचख्युः | अत एव च अजिग्रहत्तं जनको धनुस्तद्येनार्दिददैत्यपुरं पिनाकी | जिज्ञासमानो वलमस्य बाव्होईसन्नभांक्षीद्रघुनन्दनस्तदित भट्टिप्रयोगो जयमङ्गलायामित्थं व्याख्यातः । अजिग्रह - त् । अनेन धनुषा भगवता त्रिपुरदाहः कृत इति बोधितवानति । युक्तञ्चैतत्, श्रीरघुपतिं प्रति नियोगकथनानौचित्येन स्वरूपापस्थापनस्यैव कर्तव्यत्वात् । एतेन अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाकेति व्याख्यातम् । ग्रहेर्बुद्धयर्थस्वात् । यद्वा । इषिशक्योस्तुमुनन्तसमभिव्याहृतयोर्द्विकर्मकनाया भाष्ये स्थितत्वात्सिद्धमेतदिति माधवः । ग्राहेर्द्विकर्मताभ्युपगमपक्षे तु जायाप्रतिग्राहितगन्धमाल्यामिति न सिध्येत् । तत्र हिण्यन्ते कर्तुश्च कर्मण इति प्रयोज्ये धेनुरूपे कर्मणि क्तः स्यात् । तथा च जायया गन्धमाल्ये प्रतिग्राहिता येति विग्रहे ब ·

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578