Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 548
________________ ५४८ शब्दकौस्तुभः । [१ अ० ग्षि पयः। अविनीतं विनयं याचते । गामवरुणद्धि व्रजम् । माणवकं पन्थानं पृच्छति । पौरवं गां भिक्षते । वृक्षमवचिनोति फलानि । माणवकं धर्म ब्रूते शास्ति वा । अजां नयति ग्राम, वहति भारं ग्रामं हरति वा, गमयति ग्राममित्यादि । जयतेः । शतं जयति देवदत्तम् । कर्षति शाखां ग्रामम् । क्षीरधि सुधां मथ्नाति । मुष्णाति शतं देवदत्तेन । गर्गान् शतं दण्डयति । तण्डुलानोदनं पचति, तारयति कपीन् समुद्रम् । ग्राहयति बटुने- दम् । मोचयति त्याजयति वा कोपं देवदत्तम् । दीपयति शास्वार्थ शिष्यान् । स्यादेतत् । दुहादानामनिबन्धनेयं संज्ञा न तु स्वरूपाश्रया, अहमपीदमचाद्यं चोघे इति तद्राजसूत्रभाष्ये पृच्छपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शनात् । तथा च भट्टिः। स्थास्नु रणे स्मेरमुचो जगाद मारीचमुच्चैर्वचनं महार्थम् । कालि' दासोपि, शिलोच्चयोपि क्षितिपालमुच्चैः। प्रीत्या समेवार्थमा भाषतेवेति भारविश्व । उदारचेता गिरमित्युदारा द्वैपायनेनाभिदधे नरेन्द्र इति । तथा च भिक्षरर्थपरत्वाद्याचरपि सिद्धम् । तुल्यार्थत्वात् । पौरवं गामर्थयतइति यथा, तत्कि पाचेः पृथग्ग्रहणेनेति चेत्, अत्राहुः । अनुनयार्थोत्र याचतिः। विनयं याचते । विनयायानुनयनीत्यर्थात् । अस्तु तार्ह याचरेव ग्रहणम् । तस्याः नेकार्थत्वाद्भिरपि सिद्धमिति चेन्न । अर्थभेदेन शब्दभेद इति दर्शनमाश्रित्यानुनयार्थस्यैव पाचेरिह ग्रहणात् । अत एव हि न. यतिग्रहणेनानुनयार्थस्यापि न गतार्थता । स्पष्टार्थ भिक्षेः पृथग्ग्रहणमित्यन्ये । चकारेण पचेर्ग्रह इति यन्माधवादिभिरुक्तं तन्मतभेदेन । तथा च कर्मवत्कर्मणेति सूत्रे दुहिपच्योबहुलं सकर्मकयोरितिवार्तिकन्याख्यावसरे पचेकिर्मकता कैयटेन स्फुटीकृता। यन्तु कर्तुरीप्सिततममिति सूत्रे द्वयर्थः पचिरित्यादिभाष्यन्तन्तु

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578