Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 532
________________ शब्दकौस्तुभः । [ १ अ० अन्तर्धौ येनादर्शनमिच्छति । अन्तर्धाविति सप्तमी येनेति कर्तरि तृतीया । न च कुद्योगे षष्ठीप्रसङ्गः । उभयप्राप्तौ कर्मण्येवेति नियमात् । व्यवधाने स्रति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तस्कारकमपादानं स्यात् । मातुर्निलीयते कृष्णः । लीङ् श्लेषणे दैवादिकः । अत्रान्तर्धाविति चिन्त्य - प्रयोजनम् । न दिदृक्षते चोरानित्यत्र हि परत्वात्कर्मता सिद्धा । इच्छतीति किम् । इच्छायामसत्यां सत्यपि दर्शने यथा स्यात् ।। ५३२ आख्यातोपयोगे ॥ उपयोगो नियमपूर्वकं विद्यास्वीकरणम् । तस्मिन्साध्ये य आख्याता तत्कारकमपादानं स्यात् । उपाध्यायादधीते । उपयोगे किम् । नटस्य शृणोति ॥ 3 जनिकर्तुः प्रकृतिः ॥ जायमानस्य हेतुरपादानं स्यात् । पुत्रात्प्रमोदो जायते । इह जनिरुत्पत्तिः । जनिरुत्पत्तिरुद्भव इत्यमरः । इञजादिभ्य इति जनेर्भावे इय् जनिघसिभ्यामित्युणादिसूत्रेणेण वा । जनिवध्योश्चेति वृद्धिप्रतिषेधः । तस्याः कर्तेति षष्ठीतत्पुरुषः । कर्तरि चेति प्रतिषेधस्त्वनित्यः अत एव ज्ञापकात् । यद्वा शेषषष्ठया समासोयम् । निषेधस्तु कर्मषष्ठीविषय इति कारकइति सूत्रे कैयटः । तथा चार्थमात्रस्य ग्रहणाद्धात्वन्तरयोगोपि भवति अङ्गादङ्गात्सम्भवतीति यथा । एतेन इकाइतपौ धातुनिर्देशइतीका निर्देशोयमित्याश्रित्य गमहनेत्युपधालोपमर्थासङ्गतिं चोद्भावयन्तो मीमांसावार्तिककाराः समाहिताः । अत्र प्रकृतिग्रहणमुपादानमात्रपरामित्येके । अत एव प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधादित्यधिकरणे ब्रह्मणो जगदुपादानतायां यतो वा इमानि भूतानि जायन्तइति पञ्चमीमुपष्टम्भिकामाहुः । अन्ये तु पुत्रात्ममोदो जायतइति वृत्तिस्वरसात्मकृतिशब्द इह कारणमात्र पर इत्याहुः । अस्मिंश्च पक्षे यतो

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578