Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
४ पा. ३ आ.
शब्दकौस्तुमः ।
५६५
वा बोध्यम् । इह च कर्मणि भावे च लकारे देवदत्तेनास्यते मासो मासं वेति रूपद्वयमपीष्टम् । स्यादेतत् । भावेचाकमभ्य इति वचनान्यासादिकर्मकात्कथं भावे ल इति चेत् । उच्यते । अकर्मकेभ्य इत्यनेनान्तरङ्गं द्रव्यकर्म व्युदस्यते न तु बहिरङ्गं कालादिकर्म । कर्मणीत्यत्र तु व्यक्तिपक्षाश्रयणादन्तरङ्गासन्नि
वहिर कालादिकर्मण्यपि प्रतिरविरुद्धा | जातिव्यक्तिपक्षयोर्लक्ष्यानुरोधेन व्यवस्थेति सिद्धान्तात् । उक्तञ्च हरिणा । शक्तिप्रमाण संख्यादेर्द्रव्यधर्माद्विशिष्यते । क्रियासु कालयो गोतः प्राग्योगो द्रव्यकर्मणेति । अतस्तैः कर्मभिर्धातुयुक्तो द्रव्यैरकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पतइति च ॥ एतेन सस्तेमघमघाभिधानि यमुना गङ्गौघसङ्के ययेति श्रीहर्षमयोगो व्याख्यातः ||
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता सणौ ॥ गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यःकर्ता स णौ कर्मस्यात्। नियमार्थमिदम्। णिजर्थेनाप्यमानस्य यदि भवति ता गत्यर्थादीनामेवेति । तेन पाचयति देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्ये पूर्ववृप्रत्तकर्तृ संज्ञाया एव निरपवादत्वेनावस्थाना तृतीया सिद्धयति । आह च । गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मताङ्गतः । नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयतइति ॥ कर्तुः स्वधर्मेण तृतीययेत्यर्थः । गमयति माणवकं ग्रामं ग्रामकर्मकं यद्गमनं तदनुकूलव्यापाराश्रय इत्यर्थः । नीवह्योः प्रतिषेधो वक्तव्यः ॥ यद्यप्येतयोः प्रापणमर्थो न तु गतिस्तथापि विशेषणतया गतिरपि वाच्यकोटिनिविष्टेत्येतावन्मात्रेण प्राप्तिं मत्वा प्रतिषेध उक्तः । नाययति वाहयति वा भारं देवदत्तेन । वहेरनियन्तृकर्तृकस्यैव प्रतिषेधः ॥ नियन्तृकर्तृकस्प प्रयोज्यः कर्मेति वक्तव्यमिति फलितार्थः । वहन्ति वाहाः वा
:

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578