Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 565
________________ ४ पा. ४ आ. शब्द कौस्तुमः । ५६५ त्य पटपटाकृत्य । इदमवधेयम् । श्रौषडादीनां स्वाहान्तानां चादिष्वपि पाठादक्रियायोगेपि निपातत्वम् | आविःशब्दस्य साक्षात्प्रभृतिषु पाठात्कृञो योगे विकल्पः । स्वस्तियोगे त्वनेन नित्यमिति । कथं तर्हि वारुणीमदविशंकमयाविश्वक्ष्युषो भवदसाविव इति माघः । अभवद्युगमद्विलोल जिव्हा गुगलीटोभयस्टक्वभागमाविरिति च । निरंकुशाः कवय इति हरदत्तः । वस्तुतस्तु नेह दोषलेशमपि पश्यामः । तथाहि । गतित्वाद्धातोः प्राक प्रयोगः प्राप्नोतीति त्वदीयपूर्वपक्ष सर्वस्वम् । तच्च भाष्यवार्तिकयोरेव निराकृतप्रायम् । तेप्राग्धातोरिति सूत्रं हि द्वेधा व्याख्यातं प्रयोगनियमार्थं संज्ञानियमार्थे चेति । तत्रान्त्यपक्षे प्राक् चाप्राक् च प्रयोक्तव्याः । प्राक्तु प्रयुज्यमानाः संज्ञां लभन्तइति स्थितम् । इममेव च पक्षमाश्रित्यानुकरणं चेति सूत्रे ऽनितिपरमिति प्रत्याख्यातम् । एवमेव छन्दसिपरेपि व्यवहिताश्चेति मूद्वयमपि प्रत्याख्यातम् । अत एव तेप्रागिति सूत्रे सुकटं कराणि वीणानीति भाष्यं कर्तृकर्मणोश्च भूकृञोरिति सूत्रे स्वायम्भवमिति भाष्यवृत्तिग्रथौ । च्व्यर्थयोः किं स्वाढ्येन भूयतइति वृत्तिग्रन्थश्च सङ्गच्छते । एतेन वृत्तेः प्रामादिकतां वदन् आढ्येन सुभूयतइति पाठः कर्तव्य इति शिक्षयन् हरदत्तोप्यपास्तः । पक्षान्तरैरपि परिहारा भवन्तीति न्यायेन संज्ञानियमपक्षे सर्वस्य सामञ्जस्यात् । एतेन पुरोरामस्य जुहवाञ्चकार ज्वलने वपुरिति भट्टिः । तस्य स्थित्वा कथमपि पुर इति कालिदासश्च समर्थितः । न च पुरोव्ययमित्यस्य कृञ्मात्रविषयत्वमिति भ्रमितव्यम् । कृञोनधिकारात् । तुरासाहं पुरोधायेत्यादिप्रयोगाच्चेति दिक् । जरी ऊरी उररी एते त्रयोङ्गीकारे विस्तारे च । विताली भूसी एतौ विस्तारे । शकला संसकला ध्वंसकला भ्रंसक

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578