Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 570
________________ ५७० शब्द कौस्तुभः । [ १ अ० जीवयतीति जीविका जीवनोपायः । जीविकामिव कृत्वा जीवि - काकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । गतिसमासस्य नित्यत्वेपि स्वार्थमात्रनिष्ठत्वादगतिना विग्रहोत एव तत्र इवश ब्दप्रयोगः । औपम्ये किम् । जीविकां कृत्वा ॥ ते प्राग्धातोः । ते गतिसंज्ञा धातोः प्रागेव प्रयोज्याः ॥ छन्दसि परेपि ॥ व्यवहिताश्व || स्पष्टम् । हरिभ्यां याह्योक आ । आमन्द्रेरिन्द्र हरिभिर्याहि । इह संज्ञानियमपक्षोपि भाष्ये स्थितः । ते इत्यनेन प्रादीनुपनिषत्पर्यन्तात् स्वरूपेण परामृश्य धातोः प्राक् प्रयुक्तानामेषां पूर्वसूत्रैकवाक्यतया संज्ञाविधानात् । अस्मि श्र पक्षे छन्दसिपरेपि व्यवहिताश्चोत सूत्रद्वयम् अनितिपरग्रहणं च न कर्त्तव्यमिति स्थितम् । सुकटङ्कराणीति भाष्यं च सङ्गच्छते । प्रयोगनियमपक्षे तु कृत्यल्युट इति बहुलग्रहणेन समर्थनीयं स्यात् । यतु खलः खित्करणसामर्थ्यादनव्ययस्य प्राक् प्रयोगे निर्णीते सोः परिशेषाद्व्यवधानं सिध्यतीति तच्चिन्त्यम् । सामर्थ्याद्वयङवहिते मुमः सम्भवात् । कग्रहणे गतिपूर्वस्या पि ग्रहणाच्च । ईषच्छब्दस्यागतिसंज्ञकत ये षदाढ्यम्भव इत्यत्र खलः खित्त्वस्योपक्षीणत्वाच्चेति दिक् । धातोः किम् । प्रकर्तुमैच्छत् प्राचिकीर्षदित्यत्र सनः प्राक् प्रयोगो मा भूत् ॥ कर्मप्रवचनीयाः ॥ श्वरात्प्रागिदमधिक्रियते । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः बाहुलकात्कर्तर्यनीयर् स च भूते । तेन सम्प्रति क्रियां न द्योतयन्तीति लभ्यते । आह च । क्रियाया द्योतको नायं सम्बम्धस्य न वाचकः । नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदक इति । तथाहि । शाकल्यस्य संहितामनुप्रावर्षदित्यत्रानुना न क्रियाविशेषो द्योत्यते । अनुभूयते सुख

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578