Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 521
________________ २४ पा. २ आ. शब्दकौस्तुभः । ५२१ व इति पदसंज्ञाया उपसङ्ख्यानम् । तसौमत्वर्थे इति भसंज्ञाया अपवादः व्यत्ययेन भवतेः शपो लुक् ॥ यचि भम् ॥ यकारादिष्वजादिषु च स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् । गार्ग्यः । राज्ञः । वाचिकषडियोस्तु यथा भत्वाभत्वे निर्वहतस्तथा पञ्चमे वक्ष्यते । नभोङ्गिरोमनुषां वत्युपसंङ्ख्यानम् । नभसा तुल्यं वर्तते इति नभस्वत् भत्वाद्रत्वाभावः । मनुष्वदग्ने । अङ्गिरस्वदङ्गिरः । जनेरुसीत्यत्र बहुलग्रहणानुवृत्तेर्मन्यतेरुपिप्रत्ययः आदेशप्रत्यययोरिति षत्वम् । वृषण्वस्वश्वयोः वृष वर्षुकं वसु यस्य सः वृषण्वसुः । एवं वृषणधः । कर्मधारये षष्ठीतपुरुषादिर्वा यथासम्भवं बोध्यः । इहान्तवर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्रसज्येत भत्वान्तु न पदत्वम् । अत एव पदान्तस्येति णत्वनिषेधो न । अल्लोपोन इति तु न भवति अङ्गसंज्ञाया अभावात् अङ्गस्येति तत्राधिकारात् । उपसं ङ्ख्यानान्येतानि छन्दोविषयाणीति कैयटः || तसौ मत्वर्थे ॥ तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थ प्रत्यये परे । विद्युत्वान् भत्वाज्जश्त्वं न । उदकेन श्वपतिर्वर्धते उदश्वितू हि उदश्वितोन्यतरस्यामिति निपातनात्सम्प्रसारणाभावः । उदकस्योदः संज्ञायाम् । उदश्वित्वान् घोषः । यशस्वी । मत्वर्थवृत्तित्वं मतुपो विनिप्रभृतीनां चाविशिष्टं, अत उभयत्र भत्वमवृत्तिः । यथा देवदत्तशालास्था आनीयन्तामित्युक्ते देवदतोप्यानीयते उद्देश्यतावच्छेदकरूपाक्रान्तत्वात् । अयस्मयादीनि छन्दसि । एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोगन्तदुभयद्वारैषां साधुत्वं विधीयते । तथा च वार्त्तिकम्, उभयसंज्ञान्यपीति वक्तव्यमिति । अयस्मयं ६६

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578