Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 556
________________ ५५६ शब्दकौस्तुभः । [१ अ० हयति वाहान् रथिनं मूतः । या पापणइत्यत्र तु गतिरेव प्रापणशब्दार्थः । याति गच्छतीत्येकार्थप्रतीतेः । तेन कालं पाचयतीत्यादौ प्रयोज्यस्य कर्मता बोध्या। बुध्यर्थग्रहणेन ज्ञानसामान्यवाचिन एव गृह्यन्ते न तु तद्विशेषवाचिनः स्मरत्यादयः । अत एव श्रुदृशोरुपसङ्ख्यानं करिष्यते । बोधयति माणवकं धर्मम् । प्रत्यवसानं भक्षणम् । भोजयति आशयति माणवकमोदनम् । आदिखायोः प्रतिषेधो वक्तव्यः ॥आदयति खादयत्यन्नं बटुना।भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः ॥ हेतुमण्णिजन्ते विधिरिति प्र. तिषधोप्यणावित्ययं सविधानात्तद्विषयः । तेन चुरादिणिजन्तेपि भक्षयतौ प्राप्तिसत्वात्मतिषेध उपसङ्ख्यातः। भक्षयत्यत्रं बटुना । अहिंसार्थस्येति किम् । भक्षयन्ति बलीवर्दाः सस्यम् । भ. क्षयति बलीवर्दान् सस्यम् । क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा द्रष्टव्या तस्यामवस्थायान्तेषां चेतनत्वाभ्युपगमात् । शब्दः कर्मकारकं येषान्ते शब्दकर्माणः न त्विह कर्तरिकर्मव्यतिहारइत्यत्रेव कर्मशब्दः क्रियापरः। गतिबुद्धिप्रत्यवसानशब्दार्थेति वक्तव्ये ऽर्थशब्दात्कर्मशब्दस्य पृथगुपादानात् अध्याययति पाठयति माणवकं वेदम् । जल्पतिप्रभृतीनामुपसंख्यानम् ॥ जल्पयति वि. लापयति आभाषयति पुत्रं देवदत्तः। दृशेश्वोपसंख्यानम् ॥ द. यति हरि भक्तान् । यद्यपि दृशेर्ज्ञानसामान्यपरत्वे बुद्वयर्थत्वादेव सिद्धं तथापि ज्ञानविशेषार्थतायां न सिध्यतीत्युपसंख्यानमारब्धम् । श्रावयति श्लोकं देवदत्तमिति तु शब्दकर्मत्वात्सिदम् । शब्दक्रियाणामिति व्याख्याने तु शणोतेरुपसंख्येयं स्यात् । व्हयतिक्रन्दत्योश्च प्रतिषेध्यं स्यात् । व्हाययति क्रन्दयति वा देवदत्तेन । दृशेस्तूभयथाप्युपसंख्येयं स्यात् । शब्दायतेश्चोभयथा प्रतिषेध्यम् । अकर्मकत्वादपि यत्र प्रसंगः। शब्दलक्षणस्य कर्म

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578