Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 4
________________ प्रस्ताव.. ॥२॥ रीन्द्राणां श्रीमतां जिनेश्वराणामपि, आवश्यकमेव पुराणप्रचुरे काले तदभिमतदेवताविशेषाणां तदितरेषां च स्वरूपाख्यानं, ग्रन्थविधानविशेषफलमप्येतदेव, एवं च देवपरीक्षायां प्रवणत्वेपि ग्रन्थस्याधिकृतस्य धर्मार्थमेव तस्याः चेक्रियमाणत्वात्तत्प्रणीतस्य धर्मस्यापि परीक्षा संपनीपद्यत एवानायासमिति नायुक्ताभिधास्य "धर्मपरीक्षा" इति । मित्रस्यात्महितविधिपद्मप्रबोधपद्महस्तस्याव्ययपदाप्तिहेतुमाप्तोदिताविरुद्धवृषावगति ज्ञापितुं यदनुष्ठितं पवनवेगस्य मनोवेगेनासाधारणोपकृतये दिनानामष्टकेन तद्ब्धमत्र तत्रभवद्भिः शुभवद्भव्यवृन्दविज्ञानाय । ग्रन्थविरचनचतुरा ग्रन्थकृतः तपोगणकल्पद्रुमावनवृतिकल्पप्रभुश्रीमद्धर्मसागरोपाध्याय चरणान्तवासितावाप्ताव्याहतविज्ञानततयः खोपज्ञवृत्तियुक्तान् नयप्रकाशादीननन्यसाधारणारम्भानुभावयामासुः, श्रीमन्महोपाध्यायकालस्य च विदिततमत्वान्न तत्रायास आरब्धः । यद्यपि नोपलब्धिपथमायाता विहाय द्विवान्प्रभुप्रणीतान्ग्रन्थान् परे ग्रन्था वस्तुरत्नरत्नाकरास्तथाप्यवलोकनेनैतेषां प्रभुपादानामतितमानुमीयते एव शेमुषी सिद्धान्ततर्कलक्षणादिगोचरा, अत एव निर्वसनामितगतिसूर्याततायाः विविधच्छन्दोमय्या अस्या अनुष्टुप्छन्दोभिर्विधाने नोनता, समानविषये च समानतन्त्ररचनायाः प्रकारान्तरेण विधानं तादृशो वावस्थापनं समानतन्त्रविदृब्धशास्त्रच्छायाविधानादिवन्न दोषायेति ध्येयं धीमद्भिः, बालबोधादिसमप्रयोजनत्वात् तथाविधानं गुणकृदिति निर्धारितं श्रीमद्भिरभविप्यदिति तथाप्रवृत्तिमादधुधृतधिषणाधौरेयाः इत्यनुमिमीमहे उदन्वदन्ता आनन्दाः । मुद्रणादिवृत्तान्तस्तु मुद्रितपूर्वोऽनेकश इति न तत्रायासः ।। BASAHAHARA ॥२ ॥ नन्देरसाङ्क निशाधिप-(१९६९) मितेऽसिते माघमासि शरदि दले । श्रीकर्या श्रीपार्श्वप्रभाववत्यां तताऽनन्दात् ॥१॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 124