Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्धः । १०३ मिश्राणामेकोनसप्ततिः, अविरतसम्यग्दृष्टीनामेकसप्ततिः, देशविरतानां सप्तषष्टिः, प्रमत्तानां त्रिषष्टिः, अप्रमत्तानामेकोनषष्टिरष्टपञ्चाशद्वा, निवृत्तिबादराणां प्रथमे भागेऽष्टपञ्चाशत् , भागपञ्चके षट्पञ्चाशत्, सप्तमभागे षड्विंशतिः, अनिवृत्तिबादराणामाये भागे द्वाविंशतिः, द्वितीये एकविंशतिः, तृतीये विंशतिः, चतुर्थे एकोनविंशतिः, पञ्चमेऽष्टादश च, सूक्ष्मसम्परायाणां सप्तदश, उपशान्तमोहक्षीणमोहसयोगिनामेका सातलक्षणा प्रकृतिबन्धे प्राप्यते, अयोगिनां तु बन्धाभावः । एवमन्यत्राप्योघबन्धः कर्मस्तवानुसारेण भावनीयः । उक्तस्तिर्यमराणां पर्याप्तानां बन्धः, अथ तेषामेवापर्याप्तानां तमाह-"जिणइकारसहीणं" इत्यादि । यदेव नराणामोघबन्धे विंशत्युत्तरशतं तदेव जिननामाघेकादशप्रकृतिहीनं शेषं नवोत्तरशतमपर्याप्ततिर्यमरा ओघतो मिथ्यात्वे च बध्नन्ति । यद्यपि करणापर्याप्तो देवो मनुष्यो वा जिननामकर्म सम्यक्त्वप्रत्ययेन बध्नाति तथापीह नराणां लब्ध्याऽपर्याप्तत्वेन विवक्षणाद् न जिननामबन्धः ॥ ९॥ तिर्यग्गतौ मनुष्यगतौ च बन्धस्वामित्वमुक्तम् । साम्प्रतं देवगतिमधिकृत्य तदुच्यते निरय व्व सुरा नवरं, ओहे मिच्छे इगिदितिगसहिया। कप्पदुगे वि य एवं, जिणहीणो जोइभवणवणे ॥१०॥ ___ व्याख्या-सुरा अपि नारकवद् ओघतो विशेषतश्च तद्वन्धखामिनोऽवगन्तव्याः । नवरमयं विशेषः-ओघे मिथ्यात्वगुणस्थानके च बन्धमाश्रित्य सुरा एकेन्द्रियादित्रिकसहिता द्रष्टव्याः । ततोऽयमर्थः-यो नारकाणामेकोत्तरशतरूप ओघबन्धः स एवैकेन्द्रियजातिखावरनामाऽऽतपनामप्रकृतित्रयसहितः सुराणां सामान्यतो बन्धश्चतुरग्रशतम् , तदेव मिथ्यात्वे जिननामरहितं त्र्युत्तरशतम् , एतदेवैकेन्द्रियजातिस्थावराऽऽतपनपुंसकवेदमिथ्यात्वहुण्डसेवार्तलक्षणप्रकृतिसप्तकहीनं सासादने षण्णवतिः, षण्णवतिरेवानन्तानुबन्ध्यादिषड्विंशतिप्रकृतिरहिता मिश्रे सप्ततिः, सैव जिननामनरायुष्कयुता द्विसप्ततिस्तामविरतसम्यग्दृष्टयो देवा बनन्तीति सामान्यदेवगतिबन्धः । साम्प्रतं देवविशेषनामोच्चारणपूर्वकं तमाह-"कप्पदुगे" इत्यादि । 'कल्पद्विकेऽपि' सौधर्मेशानाख्यदेवलोकद्वयेऽपि ‘एवं' सामान्यदेवबन्धवद् बन्धो द्रष्टव्यः । तथाहि-सामान्येन चतुरग्रशतम् , मिथ्यादृशां व्यग्रशतम् , सासादनानां षण्णवतिः, मिश्राणां सप्ततिः, अविरतानां द्विसप्ततिः । देवौधो जिननामकर्महीनो ज्योतिष्कभवनपतिव्यन्तरदेवेषु तद्देवीषु च विज्ञेयः, जिनकर्मसत्ताकस्य तेषूत्पादाभावेन तत्र तबन्धासम्भवात्, ततः सामान्यतख्यधिकशतम् , मिथ्यात्वेऽपि व्यधिकशतम् , सासादने षण्णवतिः, मिश्रे सप्ततिः, अविरते एकसप्ततिः ॥ १० ॥ रयण व्व सणकुमाराइ आणयाई उजोयचउरहिया। अपजतिरिय व्व नवसयमिगिदिपुढविजलतरुविगले ॥११॥ __ व्याख्या-सनत्कुमाराद्याः सहस्रारान्ता देवा रत्नप्रभादिप्रथमपृथिवीत्रयनारकवद् बन्धमाश्रित्य द्रष्टव्याः। तद्यथा-सामान्येनैकाग्रशतम् , मिथ्यादृशां शतम् , सासादनानां षण्णवतिः, मिश्राणां सप्ततिः, अविरतानां द्विसप्ततिः । आनताद्या ग्रैवेयकनवकान्ता देवा अपि उद्योतनामतिर्यग्गतितिर्यगानुपूर्वीतिर्यगायुःप्रकृतिचतुष्करहिता रत्नप्रभादिनारकवदेव द्रष्टव्याः, ततः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286