Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा भव्याः-सिद्धिगमनाए अनन्तगुणाः । आह च भगवानार्यश्यामः
एएसि णं भंते ! जीवाणं भवसिद्धियाणं अभवसिद्धियाणं नोभवसिद्धियाणं नोअभवसिद्धियाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अभवसिद्धिया, नोभवसिद्धिया नोअभवसिद्धिया अणंतगुणा, भवसिद्धिया अणंतगुणा ।
(प्रज्ञा० पद ३ पत्र १३९-१) सम्यक्त्वद्वारे-साखादनसम्यग्दृष्टयः स्तोकाः, औपशमिकसम्यक्त्वात् केषाञ्चिदेव प्रच्यवमानानां साखादनत्वात् । तेभ्यः “उवसम" त्ति औपशमिकसम्यग्दृष्टयः सङ्ख्यातगुणाः ॥ ४३ ।। __ मीसा संखा वेयग, असंखगुण खइय मिच्छ दु अणंता ।
सन्नियर थोव णंताऽणहार थोवेयर असंखा ॥४४॥ तेभ्यश्चौपशमिकसम्यग्दृष्टिभ्यो मिश्राः असङ्ख्यातगुणाः । तेभ्यः "वेयग" त्ति क्षायोपशमिकसम्यग्दृष्टयोऽसङ्ख्यातगुणाः । तेभ्यः क्षायिकसम्यग्दृष्टयोऽनन्तगुणाः, क्षायिकसम्यक्त्ववतां सिद्धानामानन्त्यात् । तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, सिद्धेभ्योऽपि वनस्पतिजीवानामनन्तगुणत्वात् , तेषां च मिथ्यादृष्टित्वादिति । संज्ञिद्वारे-संज्ञिनो जीवाः स्तोकाः, देवनारकसमनस्कपञ्चेन्द्रियतिर्यङ्नराणामेव संज्ञित्वात् । तेभ्यः 'इतरे' असंज्ञिनोऽनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् । यदागमे न्यगादि
एएसि णं भंते ! जीवाणं सन्नीणं असन्नीणं नोसन्नीणं नोअसन्नीण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सबत्थोवा जीवा सन्नी, नोसन्नीनोअसन्नी अणंतगुणा, असन्नी अणंतगुणा । (प्रज्ञा० पद ३ पत्र १३९-१) ।
तथाऽऽहारकद्वारे-अनाहारकाः स्तोकाः, विग्रहगत्यापन्नसमुद्धातकेवलिभवस्थायोगिकेवलिसिद्धानामेवानाहारकत्वात् । यदाह भाष्यसुधाम्भोधिः
विग्गेहगइमावन्ना, केवलिणो समुहया अजोगी य ।
सिद्धा य अणाहारा, सेसा आहारगा जीवा ॥ तेभ्यः 'इतरे' आहारका जीवा असङ्ख्यातगुणाः । यदवाचि वाचंयमप्रवरैः श्रीमदार्यश्यामपादैः
ऍएसि णं भंते ! जीवाणं आहारगाणं अणाहारगाण य कयरे कयरेहितो अप्पा वा बहुया १ एतेषां भदन्त ! जीवानां भवसिद्धिकानामभवसिद्धिकानां नोभवसिद्धिकानां नोअभवसिद्धिकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम! सर्वस्तोका अभवसिद्धिकाः, नोभवसिद्धिका नोअभवसिद्धिका अनन्तगुणाः, भवसिद्धिका अनन्तगुणाः ॥ २°यानो अ° प्रज्ञापनायाम॥ ३ एतेषां भदन्त! जीवानां संज्ञिनामसंज्ञिना नोसंज्ञिना नोअसंज्ञिनां च कतरे कतरेभ्योऽल्पा वा बहका वा तुल्या या विशेषाधिका वा? गौतम ! सर्वस्तोका जीवाः संज्ञिनः, नोसंज्ञिनोअसंज्ञिनोऽनन्तगुणाः, असंज्ञिनोऽनन्तगुणाः॥ ४ नीनोअसमीणं प्रज्ञापनायाम॥ ५ विग्रहगत्यापनाः केवलिनः समुद्धता अयोगिनश्च । सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥ ६ गाथेयं श्रावकप्रशप्ति-प्रवचनसारोद्धारश्रीचन्द्रीयसङ्घहणीषु वर्तते परं भाष्यकारग्रन्थस्था नोपलब्धा ॥ ७ एतेषां भदन्त ! जीवानां आहारकाणामनाहारकाणां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका जीवा अनाहारकाः, आहारका असङ्ख्येयगुणाः॥
For Private and Personal Use Only

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286