Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०-८२] घडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२११ उक्तः सूत्राभिप्रायः । साम्प्रतं मतान्तरगतमसङ्ख्यातानन्तकखरूपमाह-"अन्ने वग्गिय" इत्यादि । अन्ये आचार्याः--एके सूरय एवमाहुः, यथा-'चतुर्थकमसङ्ख्यं जघन्ययुक्तासङ्ख्यातकरूपं 'वर्गितं' तावतैव राशिना गुणितं सत् "एक्कसि" त्ति एकवारं 'भवति' जायते-सम्पद्यते असङ्ख्यासह्वयं 'लघु' जघन्यम् , जघन्यासङ्ख्यातासङ्ख्यातकं भवतीत्यर्थः । अत्रापि मते असङ्ख्यातकमुद्दिश्य मध्यमोत्कृष्टभेदप्ररूपणा पूर्वोक्तैवेति दर्शयन्नाह-रूवजुयं तु तं मज्झं" ति रूपेणसर्षपलक्षणेन युतं रूपयुतं 'तुः' अवधारणे व्यवहितसम्बन्धश्च तद्' इति तदेवानन्तराभिहितं जघन्यासङ्ख्येयासङ्ख्येयादिकम् किं भवति ? इत्याह-'मध्यं' मध्यमासङ्ख्येयासङ्ख्येयादिकं भवति ॥८॥
रूवूणमाइमं गुरु, ति वग्गिउं तं इमं दस क्खेवे ।
लोगागासपएसा, धम्माधम्मेगजियदेसा ॥ ८१ ॥ तदेव जघन्यासङ्खयेयासङ्खयेयादिकं 'रूपोनम्' एकेन रूपेण रहितं सद् 'आदिम' तदपेक्षया आद्यस्य राशेः सम्बन्धि 'गुरु' उत्कृष्टं भवतीति । अयमत्राशयः-जघन्यासङ्ख्येयासङ्खयेयक रूपोनं सद् युक्तासङ्ख्यातकमुत्कृष्टकं भवति, जघन्यपरीत्तानन्तं रूपोनमसङ्ख्येयासङ्ख्येयकमुत्कृष्टं भवति, जघन्ययुक्तानन्तं तु रूपोनमुत्कृष्टं परीत्तानन्तं भवति, जघन्यानन्तानन्तकं तु रूपोनमुत्कृष्टं युक्तानन्तकं भवतीति । अधुना जघन्यपरीत्तानन्तकं मतान्तरेण प्ररूपयन्नाह-"ति वग्गिउं तं" इत्यादि । 'तद्' इति प्रागभिहितं जघन्यासङ्ख्येयासङ्ख्येयकं 'त्रिवर्गयित्वा' सदृशद्विराशी परस्परं त्रीन् वारानभ्यस्येत्यर्थः । अयमत्राशयः-जघन्यासङ्ख्येयासङ्ख्येयकराशेः सदृशद्विराशिगुणनलक्षणो वर्गो विधीयते, तस्यापि वर्गराशेः पुनर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनरपि वर्गो निष्पाद्यत इति । ततः किम् ? इत्याह—'इमान्' वक्ष्यमाणस्वरूपान् 'दश' इति दशसहयान् क्षिप्यन्त इति कर्मणि घजि क्षेपाः-प्रक्षेपणीयराशयस्तान् ‘क्षिपख' निधेहीत्युत्तरगाथायां सम्बन्धः । तथाहि लोकाकाशस्य प्रदेशाः १ धर्मश्च अधर्मश्च एकजीवश्च धर्माधर्मैकजीवास्तेषां देशाः-प्रदेशाः । अयमत्रार्थः-धर्मास्तिकायप्रदेशाः २ अधर्मास्तिकायप्रदेशाः ३ एकजीवप्रदेशाः ४ ॥ ८१ ॥ तथा
ठिइबंधज्झवसाया, अणुभागा जोगछेयपलिभागा।
दुण्ह य समाण समया, पत्तेयनिगोयए खिवसु ॥८२॥ स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि कषायोदयरूपाण्यध्यवसायशब्देनोच्यन्ते, तान्यसङ्ख्येयान्येव । तथाहि-ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टतस्तु त्रिंशत्सागरोपमकोटाकोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽस
येयभेदः, एषां च स्थितिबन्धानां निर्वर्तकान्यध्यवसायस्थानानि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्थानानि लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यम् । “अणुभाग" ति 'अनुभागाः' ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् । “जोगछेयपलिभाग" ति योगः-मनोवाकाय
For Private and Personal Use Only

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286